द्रौपद्युवाच 001
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् 001a
विह्वलास्मि कृतानेन कर्षता बलिना बलात् 001c
अभिवादं करोम्येषां गुरूणां कुरुसंसदि 002a
न मे स्यादपराधोऽयं यदिदं न कृतं मया 002c
वैशम्पायन उवाच 003
सा तेन च समुद्धूता दुःखेन च तपस्विनी 003a
पतिता विललापेदं सभायामतथोचिता 003c
द्रौपद्युवाच 004
स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः 004a
न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता 004c
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे 005a
साहमद्य सभामध्ये दृश्यामि कुरुसंसदि 005c
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे 006a
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना 006c
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् 007a
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् 007c
किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा 008a
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् 008c
धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् 009a
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः 009c
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती 010a
वासुदेवस्य च सखी पार्थिवानां सभामियाम् 010c
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् 011a
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः 011c
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः 012a
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः 012c
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः 013a
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः 013c
भीष्म उवाच 014
उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् 014a
लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः 014c
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः 015a
स धर्मो धर्मवेलायां भवत्यभिहितः परैः 015c
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् 016a
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् 016c
नूनमन्तः कुलस्यास्य भविता नचिरादिव 017a
तथा हि कुरवः सर्वे लोभमोहपरायणाः 017c
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् 018a
धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता 018c
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् 019a
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे 019c
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः 020a
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः 020c
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः 021a
अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति 021c
वैशम्पायन उवाच 022
तथा तु दृष्ट्वा बहु तत्तदेवं रोरूयमाणां कुररीमिवार्ताम् 022a
नोचुर्वचः साध्वथ वाप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः 022c
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रांस्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः 023a
स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम् 023c
तिष्ठत्वयं प्रश्न उदारसत्त्वे भीमेऽर्जुने सहदेवे तथैव 024a
पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम् 024c
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः 025a
कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात् 025c
धर्मे स्थितो धर्मराजो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः 026a
ईशो वा ते यद्यनीशोऽथ वैष वाक्यादस्य क्षिप्रमेकं भजस्व 026c
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव 027a
न विब्रुवन्त्यार्यसत्त्वा यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान् 027c
ततः सभ्याः कुरुराजस्य तत्र वाक्यं सर्वे प्रशशंसुस्तदोच्चैः 028a
चेलावेधांश्चापि चक्रुर्नदन्तो हा हेत्यासीदपि चैवात्र नादः 028c
सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः 028e
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः 029a
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः 029c
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः 030a
भीमसेनो यमौ चेति भृशं कौतूहलान्विताः 030c
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् 031a
प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् 031c
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः 032a
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि 032c
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः 033a
मन्यते जितमात्मानं यद्येष विजिता वयम् 033c
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् 034a
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् 034c
पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव 035a
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः 035c
धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम् 036a
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च 036c
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव 037a
धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः 037c
तमुवाच तदा भीष्मो द्रोणो विदुर एव च 038a
क्षम्यतामेवमित्येवं सर्वं सम्भवति त्वयि 038c