भीम उवाच 001
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर 001a
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि 001c
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् 002a
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् 002c
वाहनानि धनं चैव कवचान्यायुधानि च 003a
राज्यमात्मा वयं चैव कैतवेन हृतं परैः 003c
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् 004a
इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते 004c
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः 005a
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः 005c
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते 006a
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय 006c
अर्जुन उवाच 007
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः 007a
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् 007c
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् 008a
भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति 008c
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् 009a
दीव्यते परकामेन तन्नः कीर्तिकरं महत् 009c
भीमसेन उवाच 010
एवमस्मिकृतं विद्यां यद्यस्याहं धनञ्जय 010a
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव 010c
वैशम्पायन उवाच 011
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः 011a
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् 011c
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः 012a
अविवेकेन वाक्यस्य नरकः सद्य एव नः 012c
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ 013a
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः 013c
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च 014a
अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ 014c
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः 015a
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति 015c
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा 016a
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् 016c
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः 017a
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा 017c
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् 018a
पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् 018c
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन 019a
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः 019c
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् 020a
मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् 020c
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते 021a
तथायुक्तेन च कृतां क्रियां लोको न मन्यते 021c
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् 022a
समाहूतेन कितवैरास्थितो द्रौपदीपणः 022c
साधारणी च सर्वेषां पाण्डवानामनिन्दिता 023a
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः 023c
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना 024a
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् 024c
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत 025a
विकर्णं शंसमानानां सौबलं च विनिन्दताम् 025c
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः 026a
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् 026c
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि 027a
तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः 027c
एते न किञ्चिदप्याहुश्चोद्यमानापि कृष्णया 028a
धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् 028c
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे 029a
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् 029c
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर 030a
यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः 030c
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज 031a
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः 031c
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ 032a
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् 032c
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः 033a
भवत्यविजिता केन हेतुनैषा मता तव 033c
मन्यसे वा सभामेतामानीतामेकवाससम् 034a
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् 034c
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन 035a
इयं त्वनेकवशगा बन्धकीति विनिश्चिता 035c
अस्याः सभामानयनं न चित्रमिति मे मतिः 036a
एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता 036c
यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः 037a
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु 037c
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः 038a
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर 038c
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत 039a
अवकीर्योत्तरीयाणि सभायां समुपाविशन् 039c
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् 040a
सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे 040c
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते 041a
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः 041c
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः 042a
तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् 042c
शशाप तत्र भीमस्तु राजमध्ये महास्वनः 043a
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् 043c
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः 044a
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति 044c
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः 045a
पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् 045c
अस्य पापस्य दुर्जातेर्भारतापसदस्य च 046a
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि 046c
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् 047a
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् 047c
यदा तु वाससां राशिः सभामध्ये समाचितः 048a
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् 048c
धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः 049a
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा 049c
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह 050a
स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् 050c
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः 051a
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् 051c
विदुर उवाच 052
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् 052a
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते 052c
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् 053a
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत 053c
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः 054a
विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः 054c
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः 055a
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति 055c
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः 056a
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते 056c
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः 057a
अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः 057c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 058a
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च 058c
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः 059a
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् 059c
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा 060a
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् 060c
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् 061a
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा 061c
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् 062a
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् 062c
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि 063a
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति 063c
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् 064a
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् 064c
प्रह्लाद उवाच 065
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च 065a
ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु 065c
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् 066a
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः 066c
कश्यप उवाच 067
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् 067a
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति 067c
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते 068a
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा 068c
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते 069a
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः 069c
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु 070a
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् 070c
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः 071a
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते 071c
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते 072a
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् 072c
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् 073a
ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् 073c
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् 074a
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च 074c
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः 075a
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् 075c
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् 076a
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते 076c
विदुर उवाच 077
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् 077a
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः 077c
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव 078a
विरोचन सुधन्वायं प्राणानामीश्वरस्तव 078c
सुधन्वोवाच 079
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः 079a
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः 079c
विदुर उवाच 080
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः 080a
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् 080c
वैशम्पायन उवाच 081
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः 081a
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय 081c
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् 082a
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् 082c