वैशम्पायन उवाच 001
धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः 001a
अवैक्षत प्रातिकामीं सभायामुवाच चैनं परमार्यमध्ये 001c
त्वं प्रातिकामिन्द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः 002a
क्षत्ता ह्ययं विवदत्येव भीरुर्न चास्माकं वृद्धिकामः सदैव 002c
एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य 003a
प्रविश्य च श्वेव स सिंहगोष्ठं समासदन्महिषीं पाण्डवानाम् 003c
प्रातिकाम्युवाच 004
युधिष्ठिरे द्यूतमदेन मत्ते दुर्योधनो द्रौपदि त्वामजैषीत् 004a
सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणे याज्ञसेनि 004c
द्रौपद्युवाच 005
कथं त्वेवं वदसि प्रातिकामिन्को वै दीव्येद्भार्यया राजपुत्रः 005a
मूढो राजा द्यूतमदेन मत्त आहो नान्यत्कैतवमस्य किञ्चित् 005c
प्रातिकाम्युवाच 006
यदा नाभूत्कैतवमन्यदस्य तदादेवीत्पाण्डवोऽजातशत्रुः 006a
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि 006c
द्रौपद्युवाच 007
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज 007a
किं नु पूर्वं पराजैषीरात्मानं मां नु भारत 007c
एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज 007e
वैशम्पायन उवाच 008
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा 008a
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी 008c
किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् 008e
युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् 009a
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा 009c
दुर्योधन उवाच 010
इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् 010a
इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः 010c
वैशम्पायन उवाच 011
स गत्वा राजभवनं दुर्योधनवशानुगः 011a
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव 011c
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः सङ्क्षयः कौरवाणाम् 012a
न वै समृद्धिं पालयते लघीयान्यत्त्वं सभामेष्यसि राजपुत्रि 012c
द्रौपद्युवाच 013
एवं नूनं व्यदधात्संविधाता स्पर्शावुभौ स्पृशतो धीरबालौ 013a
धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः 013c
वैशम्पायन उवाच 014
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् 014a
द्रौपद्याः सम्मतं दूतं प्राहिणोद्भरतर्षभ 014c
एकवस्त्रा अधोनीवी रोदमाना रजस्वला 015a
सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् 015c
ततस्तेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः 016a
इहैवैतामानय प्रातिकामिन्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु 016c
ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः 017a
विहाय मानं पुनरेव सभ्यानुवाच कृष्णां किमहं ब्रवीमि 017c
दुर्योधन उवाच 018
दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः 018a
स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः 018c
ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः 019a
प्रविश्य तद्वेश्म महारथानामित्यब्रवीद्द्रौपदीं राजपुत्रीम् 019c
एह्येहि पाञ्चालि जितासि कृष्णे दुर्योधनं पश्य विमुक्तलज्जा 020a
कुरून्भजस्वायतपद्मनेत्रे धर्मेण लब्धासि सभां परैहि 020c
ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण 021a
आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य 021c
ततो जवेनाभिससार रोषाद्दुःशासनस्तामभिगर्जमानः 022a
दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम् 022c
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः 023a
ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन 023c
स तां परामृश्य सभासमीपमानीय कृष्णामतिकृष्णकेशीम् 024a
दुःशासनो नाथवतीमनाथवच्चकर्ष वायुः कदलीमिवार्ताम् 024c
सा कृष्यमाणा नमिताङ्गयष्टिः शनैरुवाचाद्य रजस्वलास्मि 025a
एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य 025c
ततोऽब्रवीत्तां प्रसभं निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम् 026a
कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोश नयामि हि त्वाम् 026c
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथ वा विवस्त्रा 027a
द्यूते जिता चासि कृतासि दासी दासीषु कामश्च यथोपजोषम् 027c
प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना 028a
ह्रीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा 028c
इमे सभायामुपदिष्टशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः 029a
गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम् 029c
नृशंसकर्मंस्त्वमनार्यवृत्त मा मां विवस्त्रां कृधि मा विकार्षीः 030a
न मर्षयेयुस्तव राजपुत्राः सेन्द्रापि देवा यदि ते सहायाः 030c
धर्मे स्थितो धर्मसुतश्च राजा धर्मश्च सूक्ष्मो निपुणोपलभ्यः 031a
वाचापि भर्तुः परमाणुमात्रं नेच्छामि दोषं स्वगुणान्विसृज्य 031c
इदं त्वनार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम् 032a
न चापि कश्चित्कुरुतेऽत्र पूजां ध्रुवं तवेदं मतमन्वपद्यन् 032c
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम् 033a
यत्राभ्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम् 033c
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं ध्रुवं तथैवास्य महात्मनोऽपि 034a
राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः 034c
तथा ब्रुवन्ती करुणं सुमध्यमा काक्षेण भर्तॄन्कुपितानपश्यत् 035a
सा पाण्डवान्कोपपरीतदेहान्सन्दीपयामास कटाक्षपातैः 035c
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव 036a
यथार्तया कोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम् 036c
दुःशासनश्चापि समीक्ष्य कृष्णामवेक्षमाणां कृपणान्पतींस्तान् 037a
आधूय वेगेन विसञ्ज्ञकल्पामुवाच दासीति हसन्निवोग्रः 037c
कर्णस्तु तद्वाक्यमतीव हृष्टः सम्पूजयामास हसन्सशब्दम् 038a
गान्धारराजः सुबलस्य पुत्रस्तथैव दुःशासनमभ्यनन्दत् 038c
सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव 039a
तेषामभूद्दुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम् 039c
भीष्म उवाच 040
न धर्मसौक्ष्म्यात्सुभगे विवक्तुं शक्नोमि ते प्रश्नमिमं यथावत् 040a
अस्वो ह्यशक्तः पणितुं परस्वं स्त्रियश्च भर्तुर्वशतां समीक्ष्य 040c
त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरः सत्यमथो न जह्यात् 041a
उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत् 041c
द्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः 042a
न मन्यते तां निकृतिं महात्मा तस्मान्न ते प्रश्नमिमं ब्रवीमि 042c
द्रौपद्युवाच 043
आहूय राजा कुशलैः सभायां दुष्टात्मभिर्नैकृतिकैरनार्यैः 043a
द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः 043c
स शुद्धभावो निकृतिप्रवृत्तिमबुध्यमानः कुरुपाण्डवाग्र्यः 044a
सम्भूय सर्वैश्च जितोऽपि यस्मात्पश्चाच्च यत्कैतवमभ्युपेतः 044c
तिष्ठन्ति चेमे कुरवः सभायामीशाः सुतानां च तथा स्नुषाणाम् 045a
समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत् 045c
वैशम्पायन उवाच 046
तथा ब्रुवन्तीं करुणं रुदन्तीमवेक्षमाणामसकृत्पतींस्तान् 046a
दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव 046c
तां कृष्यमाणां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम् 047a
वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोपं परमार्तरूपः 047c