दुर्योधन उवाच 001
एहि क्षत्तर्द्रौपदीमानयस्व प्रियां भार्यां सम्मतां पाण्डवानाम् 001a
सम्मार्जतां वेश्म परैतु शीघ्रमानन्दो नः सह दासीभिरस्तु 001c
विदुर उवाच 002
दुर्विभाव्यं भवति त्वादृशेन न मन्द सम्बुध्यसि पाशबद्धः 002a
प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् 002c
आशीविषाः शिरसि ते पूर्णकोशा महाविषाः 003a
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् 003c
न हि दासीत्वमापन्ना कृष्णा भवति भारत 004a
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः 004c
अयं धत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः 005a
द्यूतं हि वैराय महाभयाय पक्वो न बुध्यत्ययमन्तकाले 005c
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत 006a
ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् 006c
समुच्चरन्त्यतिवादा हि वक्त्राद्यैराहतः शोचति रात्र्यहानि 007a
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु 007c
अजो हि शस्त्रमखनत्किलैकः शस्त्रे विपन्ने पद्भिरपास्य भूमिम् 008a
निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वैरं मा खनीः पाण्डुपुत्रैः 008c
न किञ्चिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा 009a
तपस्विनं सम्परिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव 009c
द्वारं सुघोरं नरकस्य जिह्मं न बुध्यसे धृतराष्ट्रस्य पुत्र 010a
त्वामन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन 010c
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोऽम्भसि शश्वदेव 011a
मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति 011c
अन्तो नूनं भवितायं कुरूणां सुदारुणः सर्वहरो विनाशः 012a
वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव 012c