शकुनिरुवाच 001
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर 001a
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् 001c
युधिष्ठिर उवाच 002
मम वित्तमसङ्ख्येयं यदहं वेद सौबल 002a
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि 002c
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् 003a
शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् 003c
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया 003e
वैशम्पायन उवाच 004
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 004a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 004c
युधिष्ठिर उवाच 005
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् 005a
यत्किञ्चिदनुवर्णानां प्राक्सिन्धोरपि सौबल 005c
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया 005e
वैशम्पायन उवाच 006
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 006a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 006c
युधिष्ठिर उवाच 007
पुरं जनपदो भूमिरब्राह्मणधनैः सह 007a
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम 007c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 007e
वैशम्पायन उवाच 008
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 008a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 008c
युधिष्ठिर उवाच 009
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः 009a
कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् 009c
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया 009e
वैशम्पायन उवाच 010
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 010a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 010c
युधिष्ठिर उवाच 011
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः 011a
नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् 011c
शकुनिरुवाच 012
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर 012a
अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि 012c
वैशम्पायन उवाच 013
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत 013a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 013c
युधिष्ठिर उवाच 014
अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च 014a
अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण 014c
वैशम्पायन उवाच 015
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 015a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 015c
शकुनिरुवाच 016
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया 016a
गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ 016c
युधिष्ठिर उवाच 017
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् 017a
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि 017c
शकुनिरुवाच 018
गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति 018a
ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ 018c
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर 019a
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव 019c
युधिष्ठिर उवाच 020
यो नः सङ्ख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी 020a
अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन 020c
वैशम्पायन उवाच 021
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 021a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 021c
शकुनिरुवाच 022
अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची 022a
भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् 022c
युधिष्ठिर उवाच 023
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः 023a
तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी 023c
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः 024a
अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् 024c
वैशम्पायन उवाच 025
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 025a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 025c
शकुनिरुवाच 026
बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् 026a
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् 026c
युधिष्ठिर उवाच 027
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा 027a
कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे 027c
वैशम्पायन उवाच 028
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 028a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 028c
शकुनिरुवाच 029
एतत्पापिष्ठमकरोर्यदात्मानं पराजितः 029a
शिष्टे सति धने राजन्पाप आत्मपराजयः 029c
वैशम्पायन उवाच 030
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् 030a
पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् 030c
शकुनिरुवाच 031
अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः 031a
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय 031c
युधिष्ठिर उवाच 032
नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी 032a
सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया 032c
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया 033a
शारदोत्पलसेविन्या रूपेण श्रीसमानया 033c
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसम्पदा 034a
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् 034c
चरमं संविशति या प्रथमं प्रतिबुध्यते 035a
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 035c
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च 036a
वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा 036c
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया 037a
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल 037c
वैशम्पायन उवाच 038
एवमुक्ते तु वचने धर्मराजेन भारत 038a
धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः 038c
चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे कथाः 039a
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत 039c
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् 040a
आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा 040c
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः 041a
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत 041c
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः 042a
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् 042c
सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः 043a
जितमित्येव तानक्षान्पुनरेवान्वपद्यत 043c