दुर्योधन उवाच 001
परेषामेव यशसा श्लाघसे त्वं सदा छन्नः कुत्सयन्धार्तराष्ट्रान् 001a
जानीमस्त्वां विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे त्वम् 001c
सुविज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति 002a
जिह्वा मनस्ते हृदयं निर्व्यनक्ति ज्यायो निराह मनसः प्रातिकूल्यम् 002c
उत्सङ्गेन व्याल इवाहृतोऽसि मार्जारवत्पोषकं चोपहंसि 003a
भर्तृघ्नत्वान्न हि पापीय आहुस्तस्मात्क्षत्तः किं न बिभेषि पापात् 003c
जित्वा शत्रून्फलमाप्तं महन्नो मास्मान्क्षत्तः परुषाणीह वोचः 004a
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्द्वेषं यासि नः सम्प्रमोहात् 004c
अमित्रतां याति नरोऽक्षमं ब्रुवन्निगूहते गुह्यममित्रसंस्तवे 005a
तदाश्रितापत्रपा किं न बाधते यदिच्छसि त्वं तदिहाद्य भाषसे 005c
मा नोऽवमंस्था विद्म मनस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात् 006a
यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येषु भूस्त्वम् 006c
अहं कर्तेति विदुर मावमंस्था मा नो नित्यं परुषाणीह वोचः 007a
न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् 007c
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता 008a
तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्मि तथा वहामि 008c
भिनत्ति शिरसा शैलमहिं भोजयते च यः 009a
स एव तस्य कुरुते कार्याणामनुशासनम् 009c
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति 010a
मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः 010c
प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति 011a
भस्मापि न स विन्देत शिष्टं क्वचन भारत 011c
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुष्यम् 012a
स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्वितापि ह्यसती स्त्री जहाति 012c
विदुर उवाच 013
एतावता ये पुरुषं त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन् 013a
राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्त्वा मुसलैर्घातयन्ति 013c
अबालस्त्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे 014a
यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः 014c
न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 015a
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः 015c
अनुप्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु 016a
स्त्रियश्च राजञ्जडपङ्गुकांश्च पृच्छ त्वं वै तादृशांश्चैव मूढान् 016c
लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह 017a
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 017c
यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये 018a
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् 018c
अव्याधिजं कटुकं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धि 019a
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य 019c
वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत् 020a
यथा तथा वोऽस्तु नमश्च वोऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः 020c
आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः 021a
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन 021c