विदुर उवाच 001
द्यूतं मूलं कलहस्यानुपाति मिथोभेदाय महते वा रणाय 001a
यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम् 001c
प्रातिपीयाः शान्तनवा भैमसेनाः सबाह्लिकाः 002a
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः 002c
दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति 003a
विषाणं गौरिव मदात्स्वयमारुजते बलात् 003c
यश्चित्तमन्वेति परस्य राजन्वीरः कविः स्वामतिपत्य दृष्टिम् 004a
नावं समुद्र इव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत् 004c
दुर्योधनो ग्लहते पाण्डवेन प्रियायसे त्वं जयतीति तच्च 005a
अतिनर्माज्जायते सम्प्रहारो यतो विनाशः समुपैति पुंसाम् 005c
आकर्षस्तेऽवाक्फलः कुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः 006a
युधिष्ठिरेण सफलः संस्तवोऽस्तु साम्नः सुरिक्तोऽरिमतेः सुधन्वा 006c
प्रातिपीयाः शान्तनवाश्च राजन्काव्यां वाचं शृणुत मात्यगाद्वः 007a
वैश्वानरं प्रज्वलितं सुघोरमयुद्धेन प्रशमयतोत्पतन्तम् 007c
यदा मन्युं पाण्डवोऽजातशत्रुर्न संयच्छेदक्षमयाभिभूतः 008a
वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् 008c
महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः 009a
बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं किं तेन स्याद्वसु विन्देह पार्थान् 009c
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः 010a
यतः प्राप्तः शकुनिस्तत्र यातु मायायोधी भारत पार्वतीयः 010c