विदुर उवाच 001
महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु 001a
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् 001c
यद्वै पुरा जातमात्रो रुराव गोमायुवद्विस्वरं पापचेताः 002a
दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भविता कालहेतुः 002c
गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे 003a
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम 003c
मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते 004a
आरुह्य तं मज्जति वा पतनं वाधिगच्छति 004c
सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते 005a
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः 005c
विदितं ते महाराज राजस्वेवासमञ्जसम् 006a
अन्धका यादवा भोजाः समेताः कंसमत्यजन् 006c
नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना 007a
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः 007c
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् 008a
निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् 008c
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च 009a
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे 009c
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 010a
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 010c
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः 011a
इति स्म भाषते काव्यो जम्भत्यागे महासुरान् 011c
हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् 012a
गृहे किल कृतावासाल्ँलोभाद्राजन्नपीडयत् 012c
सदोपभोज्याल्ँलोभान्धो हिरण्यार्थे परन्तप 013a
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् 013c
तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ 014a
मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा 014c
जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत 015a
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः 015c
वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् 016a
मा गमः ससुतामात्यः सबलश्च पराभवम् 016c
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत 017a
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः 017c