युधिष्ठिर उवाच 001
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् 001a
शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः 001c
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् 002a
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः 002c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 002e
वैशम्पायन उवाच 003
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् 003a
युधिष्ठिर उवाच 004
अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः 004a
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः 004c
संह्रादनो राजरथो य इहास्मानुपावहत् 005a
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः 005c
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसम्मताः 006a
वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् 006c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 006e
वैशम्पायन उवाच 007
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 007a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 007c
युधिष्ठिर उवाच 008
सहस्रसङ्ख्या नागा मे मत्तास्तिष्ठन्ति सौबल 008a
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः 008c
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि 009a
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः 009c
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः 010a
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 010c
वैशम्पायन उवाच 011
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः 011a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 011c
युधिष्ठिर उवाच 012
शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः 012a
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः 012c
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः 013a
मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः 013c
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु 014a
स्नातकानाममात्यानां राज्ञां च मम शासनात् 014c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 014e
वैशम्पायन उवाच 015
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 015a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 015c
युधिष्ठिर उवाच 016
एतावन्त्येव दासानां सहस्राण्युत सन्ति मे 016a
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा 016c
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः 017a
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत 017c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 017e
वैशम्पायन उवाच 018
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 018a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 018c
युधिष्ठिर उवाच 019
रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः 019a
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः 019c
एकैको यत्र लभते सहस्रपरमां भृतिम् 020a
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् 020c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 020e
वैशम्पायन उवाच 021
इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् 021a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 021c
युधिष्ठिर उवाच 022
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः 022a
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने 022c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 022e
वैशम्पायन उवाच 023
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 023a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 023c
युधिष्ठिर उवाच 024
रथानां शकटानां च हयानां चायुतानि मे 024a
युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः 024c
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः 025a
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् 025c
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः 026a
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 026c
वैशम्पायन उवाच 027
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 027a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 027c
युधिष्ठिर उवाच 028
ताम्रलोहैः परिवृता निधयो मे चतुःशताः 028a
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै 028c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 028e
वैशम्पायन उवाच 029
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 029a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 029c