शकुनिरुवाच 001
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः 001a
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर 001c
युधिष्ठिर उवाच 002
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः 002a
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि 002c
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह 003a
शकुने मैव नो जैषीरमार्गेण नृशंसवत् 003c
शकुनिरुवाच 004
योऽन्वेति सङ्ख्यां निकृतौ विधिज्ञश्चेष्टास्वखिन्नः कितवोऽक्षजासु 004a
महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु 004c
अक्षग्लहः सोऽभिभवेत्परं नस्तेनैव कालो भवतीदमात्थ 005a
दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः 005c
युधिष्ठिर उवाच 006
एवमाहायमसितो देवलो मुनिसत्तमः 006a
इमानि लोकद्वाराणि यो वै सञ्चरते सदा 006c
इदं वै देवनं पापं मायया कितवैः सह 007a
धर्मेण तु जयो युद्धे तत्परं साधु देवनम् 007c
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत 008a
अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् 008c
शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे 009a
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् 009c
नाहं निकृत्या कामये सुखान्युत धनानि वा 010a
कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते 010c
शकुनिरुवाच 011
श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर 011a
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः 011c
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे 012a
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् 012c
युधिष्ठिर उवाच 013
आहूतो न निवर्तेयमिति मे व्रतमाहितम् 013a
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः 013c
अस्मिन्समागमे केन देवनं मे भविष्यति 014a
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् 014c
दुर्योधन उवाच 015
अहं दातास्मि रत्नानां धनानां च विशां पते 015a
मदर्थे देविता चायं शकुनिर्मातुलो मम 015c
युधिष्ठिर उवाच 016
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे 016a
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् 016c
वैशम्पायन उवाच 017
उपोह्यमाने द्यूते तु राजानः सर्व एव ते 017a
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः 017c
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः 018a
नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत 018c
ते द्वन्द्वशः पृथक्चैव सिंहग्रीवा महौजसः 019a
सिंहासनानि भूरीणि विचित्राणि च भेजिरे 019c
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः 020a
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् 020c
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः 021a
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् 021c
युधिष्ठिर उवाच 022
अयं बहुधनो राजन्सागरावर्तसम्भवः 022a
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः 022c
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव 023a
भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् 023c
दुर्योधन उवाच 024
सन्ति मे मणयश्चैव धनानि विविधानि च 024a
मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् 024c
वैशम्पायन उवाच 025
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् 025a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 025c