वैशम्पायन उवाच 001
ततः प्रायाद्विदुरोऽश्वैरुदारैर्महाजवैर्बलिभिः साधुदान्तैः 001a
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशम् 001c
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् 002a
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः 002c
स राजगृहमासाद्य कुबेरभवनोपमम् 003a
अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् 003c
तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत् 004a
पूजापूर्वं प्रतिगृह्याजमीढस्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् 004c
युधिष्ठिर उवाच 005
विज्ञायते ते मनसो न प्रहर्षः कच्चित्क्षत्तः कुशलेनागतोऽसि 005a
कच्चित्पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽपि कच्चित् 005c
विदुर उवाच 006
राजा महात्मा कुशली सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः 006a
प्रीतो राजन्पुत्रगणैर्विनीतैर्विशोक एवात्मरतिर्दृढात्मा 006c
इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च 007a
इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते पश्य तामेत्य पुत्र 007c
समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च 008a
प्रीयामहे भवतः सङ्गमेन समागताः कुरवश्चैव सर्वे 008c
दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा 009a
तान्द्रक्ष्यसे कितवान्सन्निविष्टानित्यागतोऽहं नृपते तज्जुषस्व 009c
युधिष्ठिर उवाच 010
द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचयेद्बुध्यमानः 010a
किं वा भवान्मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्म 010c
विदुर उवाच 011
जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे 011a
राजा तु मां प्राहिणोत्त्वत्सकाशं श्रुत्वा विद्वञ्श्रेय इहाचरस्व 011c
युधिष्ठिर उवाच 012
के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः 012a
पृच्छामि त्वां विदुर ब्रूहि नस्तान्यैर्दीव्यामः शतशः सन्निपत्य 012c
विदुर उवाच 013
गान्धारराजः शकुनिर्विशां पते राजातिदेवी कृतहस्तो मताक्षः 013a
विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च 013c
युधिष्ठिर उवाच 014
महाभयाः कितवाः सन्निविष्टा मायोपधा देवितारोऽत्र सन्ति 014a
धात्रा तु दिष्टस्य वशे किलेदं नादेवनं कितवैरद्य तैर्मे 014c
नाहं राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम् 015a
इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा 015c
न चाकामः शकुनिना देविताहं न चेन्मां धृष्णुराह्वयिता सभायाम् 016a
आहूतोऽहं न निवर्ते कदा चित्तदाहितं शाश्वतं वै व्रतं मे 016c
वैशम्पायन उवाच 017
एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् 017a
प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिर्द्रौपदीमादिकृत्वा 017c
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् 018a
धातुश्च वशमन्वेति पाशैरिव नरः सितः 018c
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः 019a
अमृष्यमाणस्तत्पार्थः समाह्वानमरिन्दमः 019c
बाह्लिकेन रथं दत्तमास्थाय परवीरहा 020a
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः 020c
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः 021a
धृतराष्ट्रेण चाहूतः कालस्य समयेन च 021c
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ 022a
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः 022c
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च 023a
समियाय यथान्यायं द्रौणिना च विभुः सह 023c
समेत्य च महाबाहुः सोमदत्तेन चैव ह 024a
दुर्योधनेन शल्येन सौबलेन च वीर्यवान् 024c
ये चान्ये तत्र राजानः पूर्वमेव समागताः 025a
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः 025c
ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः 026a
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः 026c
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् 027a
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् 027c
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः 028a
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् 028c
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः 029a
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः 029c
ततो हर्षः समभवत्कौरवाणां विशां पते 030a
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् 030c
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ 031a
ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः 031c
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव 032a
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् 032c
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् 033a
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च 033c
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः 034a
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च 034c
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ 035a
उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः 035c
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् 036a
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् 036c
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः 037a
सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् 037c