शकुनिरुवाच 001
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे 001a
तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः 001c
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे 002a
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये 002c
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत 003a
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् 003c
दुर्योधन उवाच 004
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् 004a
द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् 004c
धृतराष्ट्र उवाच 005
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः 005a
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 005c
दुर्योधन उवाच 006
विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः 006a
पाण्डवानां हिते युक्तो न तथा मम कौरव 006c
नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः 007a
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन 007c
भयं परिहरन्मन्द आत्मानं परिपालयन् 008a
वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति 008c
न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते 009a
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् 009c
धृतराष्ट्र उवाच 010
सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये 010a
वैरं विकारं सृजति तद्वै शस्त्रमनायसम् 010c
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थनं कलहस्यातिघोरम् 011a
तद्वै प्रवृत्तं तु यथा कथञ्चिद्विमोक्षयेच्चाप्यसिसायकांश्च 011c
दुर्योधन उवाच 012
द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न सम्प्रहारः 012a
तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व 012c
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम् 013a
भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व 013c
धृतराष्ट्र उवाच 014
वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र 014a
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम् 014c
दृष्टं ह्येतद्विदुरेणैवमेव सर्वं पूर्वं बुद्धिविद्यानुगेन 015a
तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियबीजघाति 015c
वैशम्पायन उवाच 016
एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च 016a
शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसम्मूढचेताः 016c
सहस्रस्तम्भां हेमवैडूर्यचित्रां शतद्वारां तोरणस्फाटिशृङ्गाम् 017a
सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः 017c
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तथा चक्रुराशु 018a
सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चापि युक्ताः 018c
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम् 019a
चित्रैर्हैमैरासनैरभ्युपेतामाचख्युस्ते तस्य राज्ञः प्रतीताः 019c
ततो विद्वान्विदुरं मन्त्रिमुख्यमुवाचेदं धृतराष्ट्रो नरेन्द्रः 020a
युधिष्ठिरं राजपुत्रं हि गत्वा मद्वाक्येन क्षिप्रमिहानयस्व 020c
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः 021a
सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्द्यूतं वर्ततामत्र चेति 021c
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः 022a
मत्वा च दुस्तरं दैवमेतद्राजा चकार ह 022c
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः 023a
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् 023c
नाभिनन्दामि नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि 024a
पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्यादेतच्छङ्के द्यूतकृते नरेन्द्र 024c
धृतराष्ट्र उवाच 025
नेह क्षत्तः कलहस्तप्स्यते मां न चेद्दैवं प्रतिलोमं भविष्यत् 025a
धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम् 025c
तदद्य विदुर प्राप्य राजानं मम शासनात् 026a
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् 026c