धृतराष्ट्र उवाच 001
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः 001a
द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा 001c
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् 002a
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ 002c
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप 003a
पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह 003c
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ 004a
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् 004c
आहरिष्यन्ति राजानस्तवापि विपुलं धनम् 005a
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च 005c
अनर्थाचरितं तात परस्वस्पृहणं भृशम् 006a
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते 006c
अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु 007a
उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् 007c
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः 008a
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति 008c
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् 009a
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ 009c
दुर्योधन उवाच 010
जानन्वै मोहयसि मां नावि नौरिव संयता 010a
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् 010c
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता 011a
भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः 011c
परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति 012a
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः 012c
राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः 013a
प्रतिपन्नान्स्वकार्येषु सम्मोहयसि नो भृशम् 013c
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः 014a
तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि 014c
क्षत्रियस्य महाराज जये वृत्तिः समाहिता 015a
स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ 015c
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः 016a
प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ 016c
प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबान्धनः 017a
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् 017c
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् 018a
समुच्छ्रये यो यतते स राजन्परमो नयी 018c
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा 019a
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः 019c
अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः 020a
शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी 020c
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव 021a
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 021c
नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते 022a
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः 022c
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते 023a
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः 023c
अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः 024a
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् 024c
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत 025a
एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः 025c
जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते 026a
एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः 026c
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति 027a
अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि 027c
अतादृशस्य किं मेऽद्य जीवितेन विशां पते 028a
वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः 028c