दुर्योधन उवाच 001
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः 001a
पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः 001c
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः 002a
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते 002c
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः 003a
आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः 003c
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत 004a
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः 004c
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् 005a
सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः 005c
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः 006a
ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् 006c
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः 007a
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् 007c
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ 008a
आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा 008c
चेकितान उपासङ्गं धनुः काश्य उपाहरत् 009a
असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् 009c
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः 010a
नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् 010c
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः 011a
जामदग्न्येन सहितास्तथान्ये वेदपारगाः 011c
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् 012a
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा 012c
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः 013a
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः 013c
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः 014a
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः 014c
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा 015a
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् 015c
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् 016a
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 016c
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् 017a
प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् 017c
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा 018a
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः 018c
सत्त्वस्थाः शौर्यसम्पन्ना अन्योन्यप्रियकारिणः 019a
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा 019c
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् 020a
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत 020c
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च 021a
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः 021c
यथातिमात्रं कौन्तेयः श्रिया परमया युतः 022a
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः 022c
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो 023a
कथं नु जीवितं श्रेयो मम पश्यसि भारत 023c
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप 024a
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत 024c
एवं दृष्ट्वा नाभिविन्दामि शर्म परीक्षमाणोऽपि कुरुप्रवीर 025a
तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च 025c