दुर्योधन उवाच 001
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ 001a
यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् 001c
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् 002a
ये ते कीचकवेणूनां छायां रम्यामुपासते 002c
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः 003a
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः 003c
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः 004a
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः 004c
कृष्णाल्ँललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् 005a
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु 005c
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः 006a
उत्तरादपि कैलासादोषधीः सुमहाबलाः 006c
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः 007a
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः 007c
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः 008a
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये 008c
फलमूलाशना ये च किराताश्चर्मवाससः 008e
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च 009a
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः 009c
कैरातिकानामयुतं दासीनां च विशां पते 010a
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः 010c
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् 011a
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः 011c
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा 012a
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह 012c
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः 013a
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः 013c
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह 014a
वसातयः समौलेयाः सह क्षुद्रकमालवैः 014c
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते 015a
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा 015c
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः 016a
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे 016c
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः 017a
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि 017c
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् 018a
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ 018c
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् 019a
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः 019c
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् 020a
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः 020c
एते चान्ये च बहवो गणा दिग्भ्यः समागताः 021a
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः 021c
राजा चित्ररथो नाम गन्धर्वो वासवानुगः 022a
शतानि चत्वार्यददद्धयानां वातरंहसाम् 022c
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् 023a
आम्रपत्रसवर्णानामददद्धेममालिनाम् 023c
कृती तु राजा कौरव्य शूकराणां विशां पते 024a
अददद्गजरत्नानां शतानि सुबहून्यपि 024c
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् 025a
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते 025c
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् 026a
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् 026c
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप 027a
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् 027c
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश 028a
दासानामयुतं चैव सदाराणां विशां पते 028c
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा 029a
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् 029c
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च 030a
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् 030c
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः 031a
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः 031c
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः 032a
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च 032c
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् 032e
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा 033a
नानादेशसमुत्थैश्च नानाजातिभिरागतैः 033c
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने 033e
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् 034a
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते 034c
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत 035a
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः 035c
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः 036a
रथानामर्बुदं चापि पादाता बहवस्तथा 036c
प्रमीयमाणमारब्धं पच्यमानं तथैव च 037a
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च 037c
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथञ्चन 038a
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने 038c
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 039a
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः 039c
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् 039e
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् 040a
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 040c
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् 041a
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते 041c
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत 042a
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः 042c