दुर्योधन उवाच 001
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत 001a
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः 001c
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् 002a
फलतो भूमितो वापि प्रतिपद्यस्व भारत 002c
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् 003a
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु 003c
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् 004a
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः 004c
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः 005a
प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः 005c
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः 005e
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् 006a
एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः 006c
शतं दासीसहस्राणां कार्पासिकनिवासिनाम् 007a
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः 007c
शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च 007e
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः 008a
उपनिन्युर्महाराज हयान्गान्धारदेशजान् 008c
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये 009a
समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः 009c
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह 010a
विविधं बलिमादाय रत्नानि विविधानि च 010c
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु 011a
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः 011c
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली 012a
यनवैः सहितो राजा भगदत्तो महारथः 012c
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः 013a
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः 013c
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् 014a
प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा 014c
द्व्यक्षांस्त्र्यक्षाल्ँललाटाक्षान्नानादिग्भ्यः समागतान् 015a
औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् 015c
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् 016a
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु 016c
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् 017a
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि 017c
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् 018a
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः 018c
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः 019a
वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा 019c
न पारयाम्यभिगतान्विविधान्द्वारि वारितान् 020a
बल्यर्थं ददतस्तस्य नानारूपाननेकशः 020c
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः 021a
आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् 021c
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् 022a
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा 022c
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः 023a
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् 023c
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् 024a
अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् 024c
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः 025a
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः 025c
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः 026a
महागमान्दूरगमान्गणितानर्बुदं हयान् 026c
कोटिशश्चैव बहुशः सुवर्णं पद्मसम्मितम् 027a
बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः 027c
आसनानि महार्हाणि यानानि शयनानि च 028a
मणिकाञ्चनचित्राणि गजदन्तमयानि च 028c
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् 029a
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारणान् 029c
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः 030a
नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च 030c
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः 031a
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः 031c