जनमेजय उवाच 001
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् 001a
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः 001c
के च तत्र सभास्तारा राजानो ब्रह्मवित्तम 002a
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् 002c
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज 003a
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम 003c
सूत उवाच 004
एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् 004a
आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् 004c
वैशम्पायन उवाच 005
शृणु मे विस्तरेणेमां कथां भरतसत्तम 005a
भूय एव महाराज यदि ते श्रवणे मतिः 005c
विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः 006a
दुर्योधनमिदं वाक्यमुवाच विजने पुनः 006c
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति 007a
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति 007c
हितं हि परमं मन्ये विदुरो यत्प्रभाषते 008a
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव 008c
देवर्षिर्वासवगुरुर्देवराजाय धीमते 009a
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः 009c
तद्वेद विदुरः सर्वं सरहस्यं महाकविः 010a
स्थितश्च वचने तस्य सदाहमपि पुत्रक 010c
विदुरो वापि मेधावी कुरूणां प्रवरो मतः 011a
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप 011c
द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते 012a
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय 012c
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् 013a
प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् 013c
अधीतवान्कृती शास्त्रे लालितः सततं गृहे 014a
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् 014c
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् 015a
तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक 015c
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् 016a
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा 016c
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् 017a
समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि 017c
दुर्योधन उवाच 018
अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः 018a
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः 018c
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो 019a
ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे 019c
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् 020a
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते 020c
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः 021a
कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने 021c
हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा 022a
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने 022c
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते 023a
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे 023c
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् 024a
नादृश्यत परः प्रान्तो नापरस्तत्र भारत 024c
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः 025a
प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु 025c
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् 026a
अपश्यं नलिनीं पूर्णामुदकस्येव भारत 026c
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः 027a
शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् 027c
तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् 028a
सपत्नेनावहासो हि स मां दहति भारत 028c
पुनश्च तादृशीमेव वापीं जलजशालिनीम् 029a
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप 029c
तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् 030a
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम 030c
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः 031a
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम 031c
प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप 032a
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा 032c
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः 032e
तत्र मां यमजौ दूरादालोक्य ललितौ किल 033a
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ 033c
उवाच सहदेवस्तु तत्र मां विस्मयन्निव 034a
इदं द्वारमितो गच्छ राजन्निति पुनः पुनः 034c
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे 035a
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे 035c