वैशम्पायन उवाच 001
अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् 001a
युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः 001c
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् 002a
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा 002c
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् 003a
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् 003c
दुर्योधनो महाराज विवर्णो हरिणः कृशः 004a
दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ 004c
न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम् 005a
ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे 005c
धृतराष्ट्र उवाच 006
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक 006a
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन 006c
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् 007a
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् 007c
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् 008a
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् 008c
आच्छादयसि प्रावारानश्नासि पिशितौदनम् 009a
आजानेया वहन्ति त्वां केनासि हरिणः कृशः 009c
शयनानि महार्हाणि योषितश्च मनोरमाः 010a
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् 010c
देवानामिव ते सर्वं वाचि बद्धं न संशयः 011a
स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक 011c
दुर्योधन उवाच 012
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा 012a
अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् 012c
अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः 013a
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते 013c
सन्तोषो वै श्रियं हन्ति अभिमानश्च भारत 014a
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् 014c
न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे 015a
ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम 015c
सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च 016a
अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् 016c
तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः 016e
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 017a
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः 017c
दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् 018a
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने 018c
कदलीमृगमोकानि कृष्णश्यामारुणानि च 019a
काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् 019c
रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः 020a
त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत 020c
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते 021a
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः 021c
न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः 022a
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः 022c
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप 023a
शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो 023c
ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः 024a
त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः 024c
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् 025a
एवं बलिं समादाय प्रवेशं लेभिरे ततः 025c
यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः 026a
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः 026c
शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् 027a
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् 027c
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ 028a
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ 028c
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 029a
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु 029c
पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् 030a
स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो ध्मायति नित्यशः 030c
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत 031a
उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् 031c
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः 032a
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर 032c
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः 033a
वैश्या इव महीपाला द्विजातिपरिवेषकाः 033c
न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा 034a
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे 034c
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् 035a
शान्तिं न परिगच्छामि दह्यमानेन चेतसा 035c
शकुनिरुवाच 036
यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे 036a
तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम 036c
अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत 037a
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने 037c
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् 038a
आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् 038c
वैशम्पायन उवाच 039
एवमुक्तः शकुनिना राजा दुर्योधनस्तदा 039a
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् 039c
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् 040a
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि 040c
धृतराष्ट्र उवाच 041
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने 041a
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 041c
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् 042a
उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् 042c
दुर्योधन उवाच 043
निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति 043a
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् 043c
स मयि त्वं मृते राजन्विदुरेण सुखी भव 044a
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि 044c
वैशम्पायन उवाच 045
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः 045a
धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः 045c
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम 046a
मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः 046c
ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः 047a
सुकृतां सुप्रवेशां च निवेदयत मे शनैः 047c
दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः 048a
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै 048c
अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः 049a
द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत 049c
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् 050a
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् 050c
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् 051a
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् 051c
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो 052a
पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु 052c
धृतराष्ट्र उवाच 053
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति 053a
दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः 053c
अशुभं वा शुभं वापि हितं वा यदि वाहितम् 054a
प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः 054c
मयि सन्निहिते चैव भीष्मे च भरतर्षभे 055a
अनयो दैवविहितो न कथञ्चिद्भविष्यति 055c
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे 056a
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् 056c
न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते 057a
दैवमेव परं मन्ये येनैतदुपपद्यते 057c
इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् 058a
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः 058c