वैशम्पायन उवाच 001
वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ 001a
शनैर्ददर्श तां सर्वां सभां शकुनिना सह 001c
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः 002a
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये 002c
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः 003a
स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया 003c
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः 004a
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् 004c
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् 005a
वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले 005c
जले निपतितं दृष्ट्वा किङ्करा जहसुर्भृशम् 006a
वासांसि च शुभान्यस्मै प्रददू राजशासनात् 006c
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः 007a
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा 007c
नामर्षयत्ततस्तेषामवहासममर्षणः 008a
आकारं रक्षमाणस्तु न स तान्समुदैक्षत 008c
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् 009a
आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः 009c
द्वारं च विवृताकारं ललाटेन समाहनत् 010a
संवृतं चेति मन्वानो द्वारदेशादुपारमत् 010c
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते 011a
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः 011c
अप्रहृष्टेन मनसा राजसूये महाक्रतौ 012a
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् 012c
पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः 013a
दुर्योधनस्य नृपतेः पापा मतिरजायत 013c
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् 014a
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह 014c
महिमानं परं चापि पाण्डवानां महात्मनाम् 015a
दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत 015c
स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् 016a
श्रियं च तामनुपमां धर्मराजस्य धीमतः 016c
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा 017a
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः 017c
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत 018a
दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि 018c
दुर्योधन उवाच 019
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् 019a
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः 019c
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल 020a
यथा शक्रस्य देवेषु तथाभूतं महाद्युते 020c
अमर्षेण सुसम्पूर्णो दह्यमानो दिवानिशम् 021a
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् 021c
पश्य सात्वतमुख्येन शिशुपालं निपातितम् 022a
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः 022c
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना 023a
क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति 023c
वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् 024a
सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् 024c
तथा हि रत्नान्यादाय विविधानि नृपा नृपम् 025a
उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः 025c
श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे 026a
अमर्षवशमापन्नो दह्येऽहमतथोचितः 026c
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् 027a
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् 027c
को हि नाम पुमाल्ँलोके मर्षयिष्यति सत्त्ववान् 028a
सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च 028c
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि 029a
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् 029c
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् 030a
यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत् 030c
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् 031a
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये 031c
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् 032a
दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा 032c
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल 033a
तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् 033c
तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् 034a
धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः 034c
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् 035a
रक्षिभिश्चावहासं तं परितप्ये यथाग्निना 035c
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् 036a
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय 036c