वैशम्पायन उवाच 001
ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः 001a
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह 001c
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन 002a
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः 002c
सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा 003a
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः 003c
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् 004a
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः 004c
इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः 004e
एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः 005a
उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् 005c
एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः 006a
सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् 006c
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् 007a
अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः 007c
क्रीडतो भोजराजन्यानेष रैवतके गिरौ 008a
हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा 008c
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् 009a
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः 009c
सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः 010a
भार्यामभ्यहरन्मोहादकामां तामितो गताम् 010c
एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् 011a
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् 011c
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् 012a
दिष्ट्या त्विदं सर्वराज्ञां सन्निधावद्य वर्तते 012c
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् 013a
कृतानि तु परोक्षं मे यानि तानि निबोधत 013c
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् 014a
अवलेपाद्वधार्हस्य समग्रे राजमण्डले 014c
रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः 015a
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा 015c
एवमादि ततः सर्वे सहितास्ते नराधिपाः 016a
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् 016c
ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् 017a
जहास स्वनवद्धासं प्रहस्येदमुवाच ह 017c
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् 018a
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् 018c
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् 019a
अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन 019c
क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम 020a
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति 020c
तथा ब्रुवत एवास्य भगवान्मधुसूदनः 021a
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः 021c
स पपात महाबाहुर्वज्राहत इवाचलः 021e
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः 022a
उत्पतन्तं महाराज गगनादिव भास्करम् 022c
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् 023a
ववन्दे तत्तदा तेजो विवेश च नराधिप 023c
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः 024a
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् 024c
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः 025a
कृष्णेन निहते चैद्ये चचाल च वसुन्धरा 025c
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन 026a
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् 026c
हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः 027a
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः 027c
रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः 028a
केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् 028c
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः 029a
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः 029c
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् 030a
दमघोषात्मजं वीरं संसाधयत मा चिरम् 030c
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा 030e
चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् 031a
अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः 031c
ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् 032a
यूनां प्रीतिकरो राजन्सम्बभौ विपुलौजसः 032c
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् 033a
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः 033c
समापयामास च तं राजसूयं महाक्रतुम् 034a
तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः 034c
ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः 034e
ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् 035a
समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् 035c
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो 036a
आजमीढाजमीढानां यशः संवर्धितं त्वया 036c
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः 036e
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः 037a
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि 037c
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः 038a
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह 038c
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः 039a
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः 039c
तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् 039e
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः 040a
यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् 040c
विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् 041a
धनञ्जयो यज्ञसेनं महात्मानं महारथः 041c
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः 042a
द्रोणं च ससुतं वीरं सहदेवो महारथः 042c
नकुलः सुबलं राजन्सहपुत्रं समन्वयात् 043a
द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् 043c
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः 044a
एवं सम्पूजितास्ते वै जग्मुर्विप्राश्च सर्वशः 044c
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ 045a
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् 045c
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन 046a
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि 046c
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् 047a
तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् 047c
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् 048a
उपादाय बलिं मुख्यं मामेव समुपस्थितम् 048c
न वयं त्वामृते वीर रंस्यामेह कथञ्चन 049a
अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी 049c
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् 050a
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः 050c
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः 051a
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि 051c
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे 052a
सुभद्रां द्रौपदीं चैव सभाजयत केशवः 052c
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् 053a
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च 053c
ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् 054a
योजयित्वा महाराज दारुकः प्रत्युपस्थितः 054c
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् 055a
प्रदक्षिणमुपावृत्य समारुह्य महामनाः 055c
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् 055e
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः 056a
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् 056c
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः 057a
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 057c
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते 058a
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः 058c
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः 058e
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ 059a
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति 059c
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप 060a
एको दुर्योधनो राजा शकुनिश्चापि सौबलः 060c
तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ 060e