भीष्म उवाच 001
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् 001a
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः 001c
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः 002a
क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः 002c
एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् 003a
तमेव पुनरादातुमिच्छत्पृथुयशा हरिः 003c
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् 004a
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् 004c
वैशम्पायन उवाच 005
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा 005a
उवाच चैनं सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् 005c
शिशुपाल उवाच 006
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः 006a
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः 006c
संस्तवाय मनो भीष्म परेषां रमते सदा 007a
यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् 007c
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् 008a
जायमानेन येनेयमभवद्दारिता मही 008c
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले 009a
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् 009c
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ 010a
स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ 010c
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् 011a
इमां वसुमतीं कुर्यादशेषामिति मे मतिः 011c
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् 012a
अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि 012c
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् 013a
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा 013c
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप 014a
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् 014c
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 015a
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् 015c
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः 016a
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते 016c
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि 017a
समावेशयसे सर्वं जगत्केवलकाम्यया 017c
अथ वैषा न ते भक्तिः पकृतिं याति भारत 018a
मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा 018c
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे 019a
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः 019c
मा साहसमितीदं सा सततं वाशते किल 020a
साहसं चात्मनातीव चरन्ती नावबुध्यते 020c
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः 021a
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना 021c
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् 022a
तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे 022c
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् 023a
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः 023c
वैशम्पायन उवाच 024
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः 024a
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः 024c
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् 025a
योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् 025c
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुधुर्नृपाः 026a
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे 026c
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः 027a
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् 027c
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः 028a
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना 028c
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः 029a
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् 029c
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये 030a
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः 030c
पशुवद्घातनं वा मे दहनं वा कटाग्निना 031a
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् 031c
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः 032a
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् 032c
कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् 033a
यावदस्यैव देवस्य देहं विशतु पातितः 033c