भीष्म उवाच 001
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः 001a
रासभारावसदृशं रुराव च ननाद च 001c
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ 002a
वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् 002c
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् 003a
चिन्तासम्मूढहृदयं वागुवाचाशरीरिणी 003c
एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः 004a
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् 004c
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः 005a
मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप 005c
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः 006a
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् 006c
येनेदमीरितं वाक्यं ममैव तनयं प्रति 007a
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः 007c
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति 008a
अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः 008c
येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ 009a
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ 009c
तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् 010a
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति 010c
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् 011a
धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः 011c
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः 012a
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा 012c
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् 013a
शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् 013c
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ 014a
यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा 014c
अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् 015a
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ 015c
अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः 016a
पुत्रं दामोदरोत्सङ्गे देवी सन्न्यदधात्स्वयम् 016c
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ 017a
पेततुस्तच्च नयनं निममज्ज ललाटजम् 017c
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत 018a
ददस्व मे वरं कृष्ण भयार्ताया महाभुज 018c
त्वं ह्यार्तानां समाश्वासो भीतानामभयङ्करः 019a
पितृष्वसारं मा भैषीरित्युवाच जनार्दनः 019c
ददानि कं वरं किं वा करवाणि पितृष्वसः 020a
शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव 020c
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् 021a
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल 021c
022 कृष्ण उवाच
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः 022a
पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः 022c
023 भीष्म उवाच
एवमेष नृपः पापः शिशुपालः सुमन्दधीः 023a
त्वां समाह्वयते वीर गोविन्दवरदर्पितः 023c