शिशुपाल उवाच 001
स मे बहुमतो राजा जरासन्धो महाबलः 001a
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे 001c
केशवेन कृतं यत्तु जरासन्धवधे तदा 002a
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते 002c
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना 003a
दृष्टः प्रभावः कृष्णेन जरासन्धस्य धीमतः 003c
येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता 004a
नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने 004c
भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः 005a
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् 005c
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे 006a
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति 006c
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया 007a
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति 007c
अथ वा नैतदाश्चर्यं येषां त्वमसि भारत 008a
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः 008c
009 वैशम्पायन उवाच
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु 009a
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् 009c
तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते 010a
भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः 010c
त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः 011a
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव 011c
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम् 012a
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः 012c
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् 013a
भीष्म एव महाबाहुर्महासेनमिवेश्वरः 013c
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत 014a
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः 014c
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः 015a
समुद्धूतो घनापाये वेलामिव महोदधिः 015c
शिशुपालस्तु सङ्क्रुद्धे भीमसेने नराधिप 016a
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः 016c
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः 017a
न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा 017c
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् 018a
भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् 018c
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः 019a
मत्प्रतापाग्निनिर्दग्धं पतङ्गमिव वह्निना 019c
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः 020a
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः 020c