शिशुपाल उवाच 001
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् 001a
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः 001c
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया 002a
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः 002c
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् 003a
तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः 003c
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः 004a
त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः 004c
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः 005a
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते 005c
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः 006a
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि 006c
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् 007a
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ 007c
चेतनारहितं काष्ठं यद्यनेन निपातितम् 008a
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् 008c
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः 009a
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम 009c
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि 010a
इति ते भीष्म शृण्वानाः परं विस्मयमागताः 010c
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः 011a
स चानेन हतः कंस इत्येतन्न महाद्भुतम् 011c
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् 012a
यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम 012c
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च 013a
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः 013c
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा 014a
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते 014c
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम 015a
अजानत इवाख्यासि संस्तुवन्कुरुसत्तम 015c
गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति 015e
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः 016a
सम्भावयति यद्येवं त्वद्वाक्याच्च जनार्दनः 016c
एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् 016e
न गाथा गाथिनं शास्ति बहु चेदपि गायति 017a
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा 017c
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः 018a
अतः पापीयसी चैषां पाण्डवानामपीष्यते 018c
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः 019a
धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः 019c
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः 020a
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता 020c
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना 021a
अम्बा नामेति भद्रं ते कथं सापहृता त्वया 021c
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः 022a
भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः 022c
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः 023a
तव जातान्यपत्यानि सज्जनाचरिते पथि 023c
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा 024a
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः 024c
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् 025a
न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् 025c
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः 026a
सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् 026c
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् 027a
सर्वं तदनपत्यस्य मोघं भवति निश्चयात् 027c
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् 028a
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् 028c
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा 029a
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः 029c
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा 030a
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह 030c
धर्मं चरत माधर्ममिति तस्य वचः किल 031a
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः 031c
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः 032a
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम 032c
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः 033a
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः 033c
तेषामण्डानि सर्वेषां भक्षयामास पापकृत् 034a
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि 034c
ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः 035a
अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह 035c
ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् 036a
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् 036c
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः 037a
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह 037c
ते त्वां हंससधर्माणमपीमे वसुधाधिपाः 038a
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम् 038c
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः 039a
भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत 039c
अन्तरात्मनि विनिहिते रौषि पत्ररथ वितथम् 040a
अण्डभक्षणमशुचि ते कर्म वाचमतिशयते 040c