वैशम्पायन उवाच 001
ततः सागरसङ्काशं दृष्ट्वा नृपतिसागरम् 001a
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः 001c
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् 002a
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा 002c
असौ रोषात्प्रचलितो महान्नृपतिसागरः 003a
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह 003c
यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् 004a
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह 004c
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे 005a
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः 005c
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति 006a
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः 006c
प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः 007a
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः 007c
वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः 008a
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ 008c
न हि सम्बुध्यते तावत्सुप्तः सिंह इवाच्युतः 009a
तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः 009c
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः 010a
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् 010c
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः 011a
यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत 011c
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर 012a
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् 012c
आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा 013a
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा 013c
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः 014a
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर 014c
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः 015a
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत 015c