वैशम्पायन उवाच 001
एवमुक्त्वा ततो भीष्मो विरराम महायशाः 001a
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः 001c
केशवं केशिहन्तारमप्रमेयपराक्रमम् 002a
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः 002c
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् 003a
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः 003c
मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् 004a
अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः 004c
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् 005a
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे 005c
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि 006a
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति 006c
आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः 007a
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् 007c
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः 008a
सम्प्रादृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा 008c
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् 009a
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् 009c
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ 010a
आमिषादपकृष्टानां सिंहानामिव गर्जताम् 010c
तं बलौघमपर्यन्तं राजसागरमक्षयम् 011a
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा 011c
पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः 012a
सहदेवो नृणां देवः समापयत कर्म तत् 012c
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः 013a
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् 013c
स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु साम्प्रतम् 014a
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान् 014c
इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः 015a
यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः 015c