वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् 001a
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः 001c
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् 002a
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् 002c
न हि धर्मं परं जातु नावबुध्येत पार्थिव 003a
भीष्मः शान्तनवस्त्वेनं मावमंस्था अतोऽन्यथा 003c
पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् 004a
मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि 004c
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् 005a
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः 005c
भीष्म उवाच 006
नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् 006a
लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते 006c
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः 007a
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः 007c
अस्यां च समितौ राज्ञामेकमप्यजितं युधि 008a
न पश्यामि महीपालं सात्वतीपुत्रतेजसा 008c
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः 009a
त्रयाणामपि लोकानामर्चनीयो जनार्दनः 009c
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः 010a
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् 010c
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् 011a
एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी 011c
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः 012a
तेषां कथयतां शौरेरहं गुणवतो गुणान् 012c
समागतानामश्रौषं बहून्बहुमतान्सताम् 012e
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः 013a
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे 013c
न केवलं वयं कामाच्चेदिराज जनार्दनम् 014a
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन 014c
अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् 015a
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे 015c
न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः 016a
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः 016c
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः 017a
पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ 017c
वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा 018a
नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते 018c
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा 019a
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते 019c
तमिमं सर्वसम्पन्नमाचार्यं पितरं गुरुम् 020a
अर्च्यमर्चितमर्चार्हं सर्वे सम्मन्तुमर्हथ 020c
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः 021a
सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः 021c
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः 022a
कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् 022c
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः 023a
परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः 023c
बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या 024a
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् 024c
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये 025a
दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् 025c
अयं तु पुरुषो बालः शिशुपालो न बुध्यते 026a
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते 026c
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः 027a
स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् 027c
सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु 028a
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् 028c
अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति 029a
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति 029c