शिशुपाल उवाच 001
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु 001a
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् 001c
नायं युक्तः समाचारः पाण्डवेषु महात्मसु 002a
यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि 002c
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः 003a
अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः 003c
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया 004a
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् 004c
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् 005a
अर्हणामर्हति तथा यथा युष्माभिरर्चितः 005c
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ 006a
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः 006c
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् 007a
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् 007c
आचार्यं मन्यसे कृष्णमथ वा कुरुपुङ्गव 008a
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि 008c
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन 009a
द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया 009c
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः 010a
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया 010c
अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः 011a
किं राजभिरिहानीतैरवमानाय भारत 011c
वयं तु न भयादस्य कौन्तेयस्य महात्मनः 012a
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् 012c
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 013a
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते 013c
किमन्यदवमानाद्धि यदिमं राजसंसदि 014a
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि 014c
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् 015a
को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् 015c
योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा 015e
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् 016a
कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् 016c
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः 017a
ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति 017c
अथ वा कृपणैरेतामुपनीतां जनार्दन 018a
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि 018c
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे 019a
हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने 019c
न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते 020a
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन 020c
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् 021a
अराज्ञो राजवत्पूजा तथा ते मधुसूदन 021c
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः 022a
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् 022c
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् 023a
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा 023c