वैशम्पायन उवाच 001
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह 001a
अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः 001c
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः 002a
समासीनाः शुशुभिरे सह राजर्षिभिस्तदा 002c
समेता ब्रह्मभवने देवा देवर्षयो यथा 003a
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः 003c
इदमेवं न चाप्येवमेवमेतन्न चान्यथा 004a
इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् 004c
कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते 005a
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः 005c
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् 006a
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् 006c
केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः 007a
रेमिरे कथयन्तश्च सर्ववेदविदां वराः 007c
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः 008a
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला 008c
न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रतः 009a
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने 009c
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् 010a
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः 010c
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप 011a
नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् 011c
सस्मार च पुरावृत्तां कथां तां भरतर्षभ 012a
अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् 012c
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन 013a
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् 013c
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः 014a
प्रतिज्ञां पालयन्धीमाञ्जातः परपुरञ्जयः 014c
सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् 015a
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ 015c
इति नारायणः शम्भुर्भगवाञ्जगतः प्रभुः 016a
आदिश्य विबुधान्सर्वानजायत यदुक्षये 016c
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः 017a
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् 017c
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते 018a
सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः 018c
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् 019a
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् 019c
इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् 020a
हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् 020c
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः 021a
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः 021c
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् 022a
क्रियतामर्हणं राज्ञां यथार्हमिति भारत 022c
आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर 023a
स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा 023c
एतानर्हानभिगतानाहुः संवत्सरोषितान् 024a
त इमे कालपूगस्य महतोऽस्मानुपागताः 024c
एषामेकैकशो राजन्नर्घ्यमानीयतामिति 025a
अथ चैषां वरिष्ठाय समर्थायोपनीयताम् 025c
026 युधिष्ठिर उवाच
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन 026a
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह 026c
027 वैशम्पायन उवाच
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य भारत 027a
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि 027c
एष ह्येषां समेतानां तेजोबलपराक्रमैः 028a
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः 028c
असूर्यमिव सूर्येण निवातमिव वायुना 029a
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः 029c
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् 030a
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् 030c
प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा 031a
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे 031c
स उपालभ्य भीष्मं च धर्मराजं च संसदि 032a
अपाक्षिपद्वासुदेवं चेदिराजो महाबलः 032c