वैशम्पायन उवाच 001
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः 001a
अभिवाद्य ततो राजन्निदं वचनमब्रवीत् 001c
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती 001e
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः 002a
इदं वः स्वमहं चैव यदिहास्ति धनं मम 002c
प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः 002e
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः 003a
युयोज ह यथायोगमधिकारेष्वनन्तरम् 003c
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् 004a
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् 004c
राज्ञां तु प्रतिपूजार्थं सञ्जयं सन्न्ययोजयत् 005a
कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती 005c
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे 006a
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् 006c
तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् 006e
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः 007a
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे 007c
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् 008a
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः 008c
सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् 009a
द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् 009c
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् 010a
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् 010c
कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् 011a
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् 011c
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः 012a
लोकराजविमानैश्च ब्राह्मणावसथैः सह 012c
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा 013a
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः 013c
राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः 014a
अशोभत सदो राजन्कौन्तेयस्य महात्मनः 014c
ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः 015a
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता 015c
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् 015e
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः 016a
रत्नोपहारकर्मण्यो बभूव स समागमः 016c
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः 017a
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः 017c
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः 018a
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः 018c