वैशम्पायन उवाच 001
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः 001a
भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः 001c
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः 002a
संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा 002c
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ 003a
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् 003c
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत 004a
समुपादाय रत्नानि विविधानि महान्ति च 004c
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः 005a
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते 005c
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः 006a
गान्धारराजः सुबलः शकुनिश्च महाबलः 006c
अचलो वृषकश्चैव कर्णश्च रथिनां वरः 007a
ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः 007c
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः 008a
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः 008c
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः 009a
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः 009c
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः 010a
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः 010c
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा 011a
आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा 011c
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा 012a
कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः 012c
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते 013a
विराटः सह पुत्रैश्च माचेल्लश्च महारथः 013c
राजानो राजपुत्राश्च नानाजनपदेश्वराः 013e
शिशुपालो महावीर्यः सह पुत्रेण भारत 014a
आगच्छत्पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्मदः 014c
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः 015a
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् 015c
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च 016a
वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः 016c
एते चान्ये च बहवो राजानो मध्यदेशजाः 017a
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् 017c
ददुस्तेषामावसथान्धर्मराजस्य शासनात् 018a
बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् 018c
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् 019a
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः 019c
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् 020a
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः 020c
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् 021a
सुखारोहणसोपानान्महासनपरिच्छदान् 021c
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः 022a
हंसांशुवर्णसदृशानायोजनसुदर्शनान् 022c
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः 023a
बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव 023c
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् 024a
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् 024c
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः 025a
भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः 025c