वैशम्पायन उवाच 001
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् 001a
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः 001c
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् 002a
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् 002c
सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् 003a
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः 003c
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् 004a
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः 004c
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् 005a
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे 005c
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् 006a
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् 006c
धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् 007a
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि 007c
स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः 008a
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे 008c
सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् 009a
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् 009c
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः 010a
ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् 010c
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह 011a
भूतभव्यभवन्नाथः केशवः केशिसूदनः 011c
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा 012a
बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् 012c
उच्चावचमुपादाय धर्मराजाय माधवः 013a
धनौघं पुरुषव्याघ्रो बलेन महता वृतः 013c
तं धनौघमपर्यन्तं रत्नसागरमक्षयम् 014a
नादयन्रथघोषेण प्रविवेश पुरोत्तमम् 014c
असूर्यमिव सूर्येण निवातमिव वायुना 015a
कृष्णेन समुपेतेन जहृषे भारतं पुरम् 015c
तं मुदाभिसमागम्य सत्कृत्य च यथाविधि 016a
सम्पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः 016c
धौम्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभः 017a
भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् 017c
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते 018a
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् 018c
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत 019a
उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव 019c
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया 020a
अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि 020c
स दीक्षापय गोविन्द त्वमात्मानं महाभुज 021a
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् 021c
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो 022a
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् 022c
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् 023a
त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् 023c
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् 023e
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते 024a
नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः 024c
025 युधिष्ठिर उवाच सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम 025a
यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः 025c
026 वैशम्पायन उवाच अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह 026a
ईहितुं राजसूयाय साधनान्युपचक्रमे 026c
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः 027a
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः 027c
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः 028a
तथोपकरणं सर्वं मङ्गलानि च सर्वशः 028c
अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि 029a
समानयन्तु पुरुषा यथायोगं यथाक्रमम् 029c
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः 030a
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया 030c
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः 031a
मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम 031c
तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् 032a
सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि 032c
ततो द्वैपायनो राजन्नृत्विजः समुपानयत् 033a
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् 033c
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः 034a
धनञ्जयानामृषभः सुसामा सामगोऽभवत् 034c
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः 035a
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् 035c
एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ 036a
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः 036c
ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् 037a
शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् 037c
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः 038a
रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् 038c
तत आज्ञापयामास स राजा राजसत्तमः 039a
सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः 039c
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् 040a
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा 040c
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि 041a
विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च 041c
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् 042a
आमन्त्रयाम्बभूवुश्च प्रेषयामास चापरान् 042c
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् 043a
दीक्षयां चक्रिरे विप्रा राजसूयाय भारत 043c
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः 044a
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः 044c
भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा 045a
क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः 045c
अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव 045e
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः 046a
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः 046c
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् 047a
बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् 047c
सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः 047e
तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः 048a
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् 048c
भुञ्जतां चैव विप्राणां वदतां च महास्वनः 049a
अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् 049c
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति 050a
एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः 050c
गवां शतसहस्राणि शयनानां च भारत 051a
रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ 051c
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः 052a
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे 052c
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् 053a
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ 053c
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च 054a
भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे 054c