वैशम्पायन उवाच 001
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा 001a
वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः 001c
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् 002a
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह 002c
सिंहनादेन महता योधानां गर्जितेन च 003a
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् 003c
ततो बहुधनं रम्यं गवाश्वधनधान्यवत् 004a
कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् 004c
तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः 005a
मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् 005c
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः 006a
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् 006c
तथा मध्यमिकायांश्च वाटधानान्द्विजानथ 007a
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः 007c
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः 008a
सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः 008c
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् 009a
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः 009c
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् 010a
उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् 010c
द्वारपालं च तरसा वशे चक्रे महाद्युतिः 010e
रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः 011a
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः 011c
तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः 012a
स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् 012c
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् 013a
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली 013c
स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते 014a
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः 014c
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् 015a
पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् 015c
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् 016a
न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् 016c
करभाणां सहस्राणि कोशं तस्य महात्मनः 017a
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् 017c
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् 018a
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् 018c
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् 019a
विजिग्ये वासुदेवेन निर्जितां भरतर्षभः 019c