वैशम्पायन उवाच 001
तथैव सहदेवोऽपि धर्मराजेन पूजितः 001a
महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् 001c
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः 002a
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली 002c
अधिराजाधिपं चैव दन्तवक्रं महाहवे 003a
जिगाय करदं चैव स्वराज्ये सन्न्यवेशयत् 003c
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 004a
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् 004c
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा 005a
तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् 005c
नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् 006a
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् 006c
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् 007a
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा 007c
चक्रे तत्र स सङ्ग्रामं सह भोजेन भारत 008a
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ 008c
करांस्तेभ्य उपादाय रत्नानि विविधानि च 009a
ततस्तैरेव सहितो नर्मदामभितो ययौ 009c
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ 010a
जिगाय समरे वीरावाश्विनेयः प्रतापवान् 010c
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ 011a
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः 011c
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् 012a
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् 012c
सैन्यक्षयकरं चैव प्राणानां संशयाय च 013a
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः 013c
ततो हया रथा नागाः पुरुषाः कवचानि च 014a
प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा 014c
ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः 015a
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय 015c
जनमेजय उवाच 016
किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि 016a
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज 016c
वैशम्पायन उवाच 017
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः 017a
श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः 017c
नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् 018a
तदा ब्राह्मणरूपेण चरमाणो यदृच्छया 018c
तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा 019a
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः 019c
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् 020a
चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः 020c
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः 021a
अभयं च स जग्राह स्वसैन्ये वै महीपतिः 021c
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः 022a
जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना 022c
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह 023a
बभूवुरनभिग्राह्या योषितश्छन्दतः किल 023c
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे 024a
स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत 024c
वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम 025a
भयादग्नेर्महाराज तदा प्रभृति सर्वदा 025c
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् 026a
परीतमग्निना राजन्नाकम्पत यथा गिरिः 026c
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः 027a
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते 027c
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक 028a
पावनात्पावकश्चासि वहनाद्धव्यवाहनः 028c
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि 029a
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन 029c
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् 030a
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् 030c
प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत 031a
न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः 031c
तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् 032a
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः 032c
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया 033a
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च 033c
मया तु रक्षितव्येयं पुरी भरतसत्तम 034a
यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति 034c
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव 034e
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः 035a
पूजयामास माद्रेयः पावकं पुरुषर्षभः 035c
पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा 036a
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् 036c
प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् 037a
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् 037c
त्रैपुरं स वशे कृत्वा राजानममितौजसम् 038a
निजग्राह महाबाहुस्तरसा पोतनेश्वरम् 038c
आहृतिं कौशिकाचार्यं यत्नेन महता ततः 039a
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा 039c
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे 040a
राज्ञे भोजकटस्थाय महामात्राय धीमते 040c
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै 041a
स चास्य ससुतो राजन्प्रतिजग्राह शासनम् 041c
प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च 042a
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः 042c
ततः शूर्पारकं चैव गणं चोपकृताह्वयम् 043a
वशे चक्रे महातेजा दण्डकांश्च महाबलः 043c
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् 044a
निषादान्पुरुषादांश्च कर्णप्रावरणानपि 044c
ये च कालमुखा नाम नरा राक्षसयोनयः 045a
कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा 045c
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा 046a
तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः 046c
एकपादांश्च पुरुषान्केवलान्वनवासिनः 047a
नगरीं सञ्जयन्तीं च पिच्छण्डं करहाटकम् 047c
दूतैरेव वशे चक्रे करं चैनानदापयत् 047e
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः 048a
अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् 048c
अन्ताखीं चैव रोमां च यवनानां पुरं तथा 049a
दूतैरेव वशे चक्रे करं चैनानदापयत् 049c
भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः 050a
प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने 050c
विभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः 050e
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् 051a
तच्च कालकृतं धीमानन्वमन्यत स प्रभुः 051c
ततः सम्प्रेषयामास रत्नानि विविधानि च 052a
चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च 052c
वासांसि च महार्हाणि मणींश्चैव महाधनान् 053a
न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् 053c
एवं निर्जित्य तरसा सान्त्वेन विजयेन च 054a
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः 054c
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ 055a
कृतकर्मा सुखं राजन्नुवास जनमेजय 055c