वैशम्पायन उवाच 001
ततः कुमारविषये श्रेणिमन्तमथाजयत् 001a
कोसलाधिपतिं चैव बृहद्बलमरिन्दमः 001c
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् 002a
अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा 002c
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् 003a
मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः 003c
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् 004a
सर्वमल्पेन कालेन देशं चक्रे वशे बली 004c
एवं बहुविधान्देशान्विजित्य पुरुषर्षभः 005a
उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् 005c
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः 005e
स काशिराजं समरे सुबन्धुमनिवर्तिनम् 006a
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः 006c
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् 007a
युध्यमानं बलात्सङ्ख्ये विजिग्ये पाण्डवर्षभः 007c
ततो मत्स्यान्महातेजा मलयांश्च महाबलान् 008a
अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः 008c
निवृत्य च महाबाहुर्मदर्वीकं महीधरम् 009a
सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः 009c
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् 009e
भर्गाणामधिपं चैव निषादाधिपतिं तथा 010a
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् 010c
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः 011a
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा 011c
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः 012a
वैदेहकं च राजानं जनकं जगतीपतिम् 012c
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा 012e
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् 013a
किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः 013c
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् 014a
विजित्य युधि कौन्तेयो मागधानुपयाद्बली 014c
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् 015a
तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् 015c
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह 016a
तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली 016c
स कम्पयन्निव महीं बलेन चतुरङ्गिणा 017a
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना 017c
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत 018a
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः 018c
अथ मोदागिरिं चैव राजानं बलवत्तरम् 019a
पाण्डवो बाहुवीर्येण निजघान महामृधे 019c
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् 020a
कौशिकीकच्छनिलयं राजानं च महौजसम् 020c
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ 021a
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् 021c
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् 022a
ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा 022c
सुह्मानामधिपं चैव ये च सागरवासिनः 023a
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः 023c
एवं बहुविधान्देशान्विजित्य पवनात्मजः 024a
वसु तेभ्य उपादाय लौहित्यमगमद्बली 024c
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः 025a
करमाहारयामास रत्नानि विविधानि च 025c
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् 026a
काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् 026c
स कोटिशतसङ्ख्येन धनेन महता तदा 027a
अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् 027c
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः 028a
निवेदयामास तदा धर्मराजाय तद्धनम्स 028c