वैशम्पायन उवाच 001
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् 001a
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति 001c
महता बलचक्रेण परराष्ट्रावमर्दिना 002a
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः 002c
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् 003a
पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः 003c
ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः 004a
विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः 004c
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् 005a
कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् 005c
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परन्तपः 006a
अधिसेनापतिं चक्रे सुधर्माणं महाबलम् 006c
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः 007a
सैन्येन महता राजन्कम्पयन्निव मेदिनीम् 007c
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् 008a
जिगाय समरे वीरो बलेन बलिनां वरः 008c
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा 009a
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः 009c
ततो दक्षिणमागम्य पुलिन्दनगरं महत् 010a
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 010c
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः 011a
शिशुपालं महावीर्यमभ्ययाज्जनमेजय 011c
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् 012a
उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तपः 012c
तौ समेत्य महाराज कुरुचेदिवृषौ तदा 013a
उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् 013c
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते 014a
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ 014c
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् 015a
स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः 015c
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः 016a
सत्कृतः शिशुपालेन ययौ सबलवाहनः 016c