वैशम्पायन उवाच 001
स श्वेतपर्वतं वीरः समतिक्रम्य भारत 001a
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् 001c
महता सन्निपातेन क्षत्रियान्तकरेण ह 002a
व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् 002c
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् 003a
पाकशासनिरव्यग्रः सहसैन्यः समासदत् 003c
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् 004a
ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः 004c
सरो मानसमासाद्य हाटकानभितः प्रभुः 005a
गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः 005c
तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् 006a
लेभे स करमत्यन्तं गन्धर्वनगरात्तदा 006c
उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः 007a
इयेष जेतुं तं देशं पाकशासननन्दनः 007c
तत एनं महाकाया महावीर्या महाबलाः 008a
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् 008c
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन 009a
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत 009c
इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः 010a
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव 010c
न चापि किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते 011a
उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते 011c
प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किञ्चन 012a
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् 012c
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि 013a
तद्ब्रवीहि करिष्यामो वचनात्तव भारत 013c
ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः 014a
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः 014c
न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः 015a
युधिष्ठिराय यत्किञ्चित्करवन्नः प्रदीयताम् 015c
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च 016a
मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् 016c
एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् 017a
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा 017c
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह 018a
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च 018c
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि 019a
मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः 019c
वृतः सुमहता राजन्बलेन चतुरङ्गिणा 020a
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् 020c