वैशम्पायन उवाच 001
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः 001a
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् 001c
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् 002a
तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः 002c
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः 003a
तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः 003c
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् 004a
कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् 004c
मृदङ्गवरनादेन रथनेमिस्वनेन च 005a
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् 005c
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा 006a
निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् 006c
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः 007a
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् 007c
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः 008a
उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः 008c
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ 009a
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् 009c
मोदापुरं वामदेवं सुदामानं सुसङ्कुलम् 010a
कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् 010c
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् 011a
व्यजयद्धनञ्जयो राजन्देशान्पञ्च प्रमाणतः 011c
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् 012a
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः 012c
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् 013a
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः 013c
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् 014a
ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् 014c
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः 015a
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः 015c
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः 016a
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह 016c
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये 017a
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः 017c
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः 018a
उरशावासिनं चैव रोचमानं रणेऽजयत् 018c
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् 019a
प्रामथद्बलमास्थाय पाकशासनिराहवे 019c
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः 020a
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः 020c
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः 021a
महता परिमर्देन वशे चक्रे दुरासदान् 021c
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः 022a
दरदान्सह काम्बोजैरजयत्पाकशासनिः 022c
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः 023a
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः 023c
लोहान्परमकाम्बोजानृषिकानुत्तरानपि 024a
सहितांस्तान्महाराज व्यजयत्पाकशासनिः 024c
ऋषिकेषु तु सङ्ग्रामो बभूवातिभयङ्करः 025a
तारकामयसङ्काशः परमर्षिकपार्थयोः 025c
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि 026a
शुकोदरसमप्रख्यान्हयानष्टौ समानयत् 026c
मयूरसदृशानन्यानुभयानेव चापरान् 026e
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कुटम् 027a
श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः 027c