वैशम्पायन उवाच 001
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी 001a
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत 001c
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् 002a
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् 002c
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् 003a
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम 003c
विजयाय प्रयास्यामि दिशं धनदरक्षिताम् 004a
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे 004c
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः 005a
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत 005c
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ 006a
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च 006c
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि 006e
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः 007a
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा 007c
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ 008a
ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः 008c
दिशं धनपतेरिष्टामजयत्पाकशासनिः 009a
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् 009c
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् 010a
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः 010c
जनमेजय उवाच 011
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय 011a
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 011c
वैशम्पायन उवाच 012
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते 012a
यौगपद्येन पार्थैर्हि विजितेयं वसुन्धरा 012c
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् 013a
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा 013c
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः 014a
सुमण्डलं पापजितं कृतवाननुसैनिकम् 014c
स तेन सहितो राजन्सव्यसाची परन्तपः 015a
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् 015c
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः 016a
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् 016c
स तानपि महेष्वासो विजित्य भरतर्षभ 017a
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् 017c
तत्र राजा महानासीद्भगदत्तो विशां पते 018a
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः 018c
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् 019a
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः 019c
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् 020a
प्रहसन्नब्रवीद्राजा सङ्ग्रामे विगतक्लमः 020c
उपपन्नं महाबाहो त्वयि पाण्डवनन्दन 021a
पाकशासनदायादे वीर्यमाहवशोभिनि 021c
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे 022a
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि 022c
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते 023a
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक 023c
अर्जुन उवाच 024
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः 024a
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् 024c
भवान्पितृसखा चैव प्रीयमाणो मयापि च 025a
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् 025c
भगदत्त उवाच 026
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः 026a
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते 026c