वैशम्पायन उवाच 001
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् 001a
बुद्धिमास्थाय विपुलां जरासन्धजिघांसया 001c
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् 002a
प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा 002c
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् 003a
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया 003c
यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः 004a
बलं भीम जरासन्धे दर्शयाशु तदद्य नः 004c
एवमुक्तस्तदा भीमो जरासन्धमरिन्दमः 005a
उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः 005c
भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ 006a
बभञ्ज पृष्ठे सङ्क्षिप्य निष्पिष्य विननाद च 006c
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः 007a
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः 007c
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः 008a
भीमसेनस्य नादेन जरासन्धस्य चैव ह 008c
किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही 009a
इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् 009c
ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् 010a
रात्रौ परासुमुत्सृज्य निश्चक्रमुररिन्दमाः 010c
जरासन्धरथं कृष्णो योजयित्वा पताकिनम् 011a
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् 011c
ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः 012a
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् 012c
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः 013a
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् 013c
यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः 014a
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः 014c
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः 015a
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः 015c
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये 016a
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा 016c
तप्तचामीकराभेण किङ्किणीजालमालिना 017a
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना 017c
येन शक्रो दानवानां जघान नवतीर्नव 018a
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः 018c
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा 019a
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः 019c
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे 020a
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत 020c
असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः 021a
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः 021c
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् 022a
क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः 022c
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः 023a
तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः 023c
दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ 024a
आदित्य इव मध्याह्ने सहस्रकिरणावृतः 024c
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते 025a
दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः 025c
तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् 026a
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः 026c
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः 027a
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् 027c
स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः 028a
गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः 028c
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा 029a
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा 029c
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् 030a
पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः 030c
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन 031a
भीमार्जुनबलोपेते धर्मस्य परिपालनम् 031c
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् 032a
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते 032c
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे 033a
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम 033c
किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ 034a
कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् 034c
तानुवाच हृषीकेशः समाश्वास्य महामनाः 035a
युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति 035c
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 036a
सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति 036c
ततः प्रतीतमनसस्ते नृपा भरतर्षभ 037a
तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् 037c
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः 038a
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया 038c
जरासन्धात्मजश्चैव सहदेवो महारथः 039a
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् 039c
स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः 040a
सहदेवो नृणां देवं वासुदेवमुपस्थितः 040c
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा 041a
अभ्यषिञ्चत तत्रैव जरासन्धात्मजं तदा 041c
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः 042a
विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् 042c
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् 043a
रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः 043c
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः 044a
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत 044c
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः 045a
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम 045c
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ 046a
पुनः स्वनगरं प्राप्तावक्षताविति भारत 046c
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः 047a
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे 047c
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् 048a
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह 048c
यथावयः समागम्य राजभिस्तैश्च पाण्डवः 049a
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् 049c
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः 050a
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः 050c
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः 051a
पाण्डवैर्घातयामास जरासन्धमरिं तदा 051c
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः 052a
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत 052c
सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा 053a
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति 053c
तेनैव रथमुख्येन तरुणादित्यवर्चसा 054a
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः 054c
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ 055a
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् 055c
ततो गते भगवति कृष्णे देवकिनन्दने 056a
जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा 056c
संवर्धितौजसो भूयः कर्मणा तेन भारत 057a
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् 057c
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् 058a
तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् 058c