वैशम्पायन उवाच 001
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः 001a
उवाच वाग्मी राजानं जरासन्धमधोक्षजः 001c
त्रयाणां केन ते राजन्योद्धुं वितरते मनः 002a
अस्मदन्यतमेनेह सज्जीभवतु को युधि 002c
एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः 003a
जरासन्धस्ततो राजन्भीमसेनेन मागधः 003c
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च 004a
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः 004c
कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना 005a
समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः 005c
अवमुच्य किरीटं स केशान्समनुमृज्य च 006a
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः 006c
उवाच मतिमान्राजा भीमं भीमपराक्रमम् 007a
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् 007c
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः 008a
प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः 008c
ततः सम्मन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली 009a
भीमसेनो जरासन्धमाससाद युयुत्सया 009c
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः 010a
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ 010c
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा 011a
आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव 011c
उभौ परमसंहृष्टौ बलेनातिबलावुभौ 012a
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ 012c
तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे 013a
बलिनोः संयुगे राजन्वृत्रवासवयोरिव 013c
प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः 014a
आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः 014c
ततः शब्देन महता भर्त्सयन्तौ परस्परम् 015a
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः 015c
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ 016a
बाहुभिः समसज्जेतामायसैः परिघैरिव 016c
कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि 017a
अनारतं दिवारात्रमविश्रान्तमवर्तत 017c
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः 018a
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् 018c
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः 019a
उवाच भीमकर्माणं भीमं सम्बोधयन्निव 019c
क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे 020a
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः 020c
तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः 021a
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ 021c
एवमुक्तः स कृष्णेन पाण्डवः परवीरहा 022a
जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे 022c
ततस्तमजितं जेतुं जरासन्धं वृकोदरः 023a
संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः 023c