जरासन्ध उवाच 001
न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत 001a
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् 001c
वैकृते चासति कथं मन्यध्वं मामनागसम् 002a
अरिं विब्रूत तद्विप्राः सतां समय एष हि 002c
अथ धर्मोपघाताद्धि मनः समुपतप्यते 003a
योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः 003c
अतोऽन्यथाचरल्ँलोके धर्मज्ञः सन्महाव्रतः 004a
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च 004c
त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् 005a
अनागसं प्रजानानाः प्रमादादिव जल्पथ 005c
006 वासुदेव उवाच
कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः 006a
वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः 006c
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः 007a
तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् 007c
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम 008a
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि 008c
अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् 009a
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः 009c
मनुष्याणां समालम्भो न च दृष्टः कदाचन 010a
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् 010c
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यति 011a
कोऽन्य एवं यथा हि त्वं जरासन्ध वृथामतिः 011c
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः 012a
ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः 012c
नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् 013a
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः 013c
को हि जानन्नभिजनमात्मनः क्षत्रियो नृप 014a
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् 014c
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः 015a
यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप 015c
स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः 016a
स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् 016c
एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः 017a
येनासुरान्पराजित्य जगत्पाति शतक्रतुः 017c
स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव 018a
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः 018c
मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे 019a
समं तेजस्त्वया चैव केवलं मनुजेश्वर 019c
यावदेव न सम्बुद्धं तावदेव भवेत्तव 020a
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते 020c
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध 021a
मा गमः ससुतामात्यः सबलश्च यमक्षयम् 021c
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः 022a
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः 022c
मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः 023a
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ 023c
त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध 024a
मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् 024c
025 जरासन्ध उवाच
नाजितान्वै नरपतीनहमादद्मि कांश्चन 025a
जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः 025c
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् 026a
विक्रम्य वशमानीय कामतो यत्समाचरेत् 026c
देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् 027a
अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् 027c
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः 028a
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा 028c
029 वैशम्पायन उवाच
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् 029a
आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः 029c
स तु सेनापती राजा सस्मार भरतर्षभ 030a
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते 030c
ययोस्ते नामनी लोके हंसेति डिभकेति च 031a
पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते 031c
तं तु राजन्विभुः शौरी राजानं बलिनां वरम् 032a
स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् 032c
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् 033a
भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः 033c
नात्मनात्मवतां मुख्य इयेष मधुसूदनः 034a
ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः 034c