वासुदेव उवाच 001
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् 001a
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः 001c
वैहारो विपुलः शैलो वराहो वृषभस्तथा 002a
तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः 002c
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः 003a
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् 003c
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः 004a
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः 004c
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः 005a
औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः 005c
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि 006a
भजते मागधं वंशं स नृपाणामनुग्रहात् 006c
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः 007a
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन 007c
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः 008a
लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः 008c
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ 009a
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः 009c
अपरिहार्या मेघानां मागधेयं मणेः कृते 010a
कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् 010c
अर्थसिद्धिं त्वनपगां जरासन्धोऽभिमन्यते 011a
वयमासादने तस्य दर्पमद्य निहन्म हि 011c
012 वैशम्पायन उवाच एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः 012a
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् 012c
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् 013a
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् 013c
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् 014a
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः 014c
यत्र माषादमृषभमाससाद बृहद्रथः 015a
तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् 015c
आनह्य चर्मणा तेन स्थापयामास स्वे पुरे 016a
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः 016c
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् 017a
शिरसीव जिघांसन्तो जरासन्धजिघांसवः 017c
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् 018a
अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् 018c
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् 019a
ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा 019c
एतस्मिन्नेव काले तु जरासन्धं समर्चयन् 020a
पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः 020c
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः 021a
युयुत्सवः प्रविविशुर्जरासन्धेन भारत 021c
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् 022a
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् 022c
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः 023a
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः 023c
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः 024a
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः 024c
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः 025a
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा 025c
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः 026a
अशोभन्त महाराज बाहवो बाहुशालिनाम् 026c
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् 027a
व्यूढोरस्कान्मागधानां विस्मयः समजायत 027c
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः 028a
अहङ्कारेण राजानमुपतस्थुर्महाबलाः 028c
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् 029a
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि 029c
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः 030a
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् 030c
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः 031a
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत 031c
तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः 032a
उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा 032c
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः 033a
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम 033c
स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः 034a
तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् 034c
तानब्रवीज्जरासन्धस्तदा यादवपाण्डवान् 035a
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् 035c
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः 036a
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः 036c
तानुवाच जरासन्धः सत्यसन्धो नराधिपः 037a
विगर्हमाणः कौरव्य वेषग्रहणकारणात् 037c
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः 038a
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः 038c
ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः 039a
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ 039c
एवं विरागवसना बहिर्माल्यानुलेपनाः 040a
सत्यं वदत के यूयं सत्यं राजसु शोभते 040c
चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः 041a
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् 041c
कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् 042a
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः 042c
एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् 043a
प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे 043c
एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः 044a
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः 044c
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः 045a
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत 045c
विशेषवांश्च सततं क्षत्रियः श्रियमर्छति 046a
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् 046c
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् 047a
अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् 047c
स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् 048a
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः 048c
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् 049a
प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः 049c
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् 050a
प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् 050c