वासुदेव उवाच 001
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ 001a
जरासन्धस्य निधने कालोऽयं समुपागतः 001c
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः 002a
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे 002c
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः 003a
साधयिष्याम तं राजन्वयं त्रय इवाग्नयः 003c
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः 004a
न सन्देहो यथा युद्धमेकेनाभ्युपयास्यति 004c
अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः 005a
भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति 005c
अलं तस्य महाबाहुर्भीमसेनो महाबलः 006a
लोकस्य समुदीर्णस्य निधनायान्तको यथा 006c
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि 007a
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे 007c
008 वैशम्पायन उवाच
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः 008a
भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ 008c
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण 009a
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् 009c
यथा वदसि गोविन्द सर्वं तदुपपद्यते 010a
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी 010c
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः 011a
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः 011c
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते 012a
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम 012c
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे 013a
धर्मकामार्थरहितो रोगार्त इव दुर्गतः 013c
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना 014a
नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः 014c
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः 015a
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः 015c
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् 016a
अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः 016c
यतो हि निम्नं भवति नयन्तीह ततो जलम् 017a
यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् 017c
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् 018a
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये 018c
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् 019a
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये 019c
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये 020a
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् 020c
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति 020e
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः 021a
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति 021c
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् 022a
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः 022c
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् 023a
रविसोमाग्निवपुषां भीममासीत्तदा वपुः 023c
हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ 024a
एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ 024c
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने 025a
धर्मार्थकामकार्याणां कार्याणामिव निग्रहे 025c
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् 026a
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च 026c
गण्डकीयां तथा शोणं सदानीरां तथैव च 027a
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते 027c
सन्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् 028a
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् 028c
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः 029a
कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः 029c
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् 030a
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् 030c