राक्षस्युवाच 001
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी 001a
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् 001c
साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप 002a
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक 002c
संश्लेषिते मया दैवात्कुमारः समपद्यत 003a
तव भाग्यैर्महाराज हेतुमात्रमहं त्विह 003c
004 कृष्ण उवाच एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत 004a
स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः 004c
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा 005a
आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् 005c
तस्य नामाकरोत्तत्र प्रजापतिसमः पिता 006a
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् 006c
सोऽवर्धत महातेजा मगधाधिपतेः सुतः 007a
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः 007c
कस्यचित्त्वथ कालस्य पुनरेव महातपाः 008a
मगधानुपचक्राम भगवांश्चण्डकौशिकः 008c
तस्यागमनसंहृष्टः सामात्यः सपुरःसरः 009a
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः 009c
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत 010a
स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् 010c
प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः 011a
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना 011c
सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा 012a
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति 012c
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः 013a
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते 013c
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः 013e
सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति 014a
सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः 014c
एनमासाद्य राजानः समृद्धबलवाहनाः 015a
विनाशमुपयास्यन्ति शलभा इव पावकम् 015c
एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति 016a
वर्षास्विवोद्धतजला नदीर्नदनदीपतिः 016c
एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः 017a
शुभाशुभमिव स्फीता सर्वसस्यधरा धरा 017c
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः 018a
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः 018c
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् 019a
सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः 019c
एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् 020a
विसर्जयामास नृपं बृहद्रथमथारिहन् 020c
प्रविश्य नगरं चैव ज्ञातिसम्बन्धिभिर्वृतः 021a
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा 021c
बृहद्रथो नरपतिः परां निर्वृतिमाययौ 021e
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः 022a
पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् 022c
तपोवनस्थे पितरि मातृभ्यां सह भारत 023a
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे 023c
अथ दीर्घस्य कालस्य तपोवनगतो नृपः 024a
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः 024c
तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ 025a
मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ 025c
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ 026a
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः 026c
एवमेष तदा वीर बलिभिः कुकुरान्धकैः 027a
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः 027c