वासुदेव उवाच 001
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च 001a
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता 001c
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा 002a
न चापि कञ्चिदमरमयुद्धेनापि शुश्रुमः 002c
एतावदेव पुरुषैः कार्यं हृदयतोषणम् 003a
नयेन विधिदृष्टेन यदुपक्रमते परान् 003c
सुनयस्यानपायस्य संयुगे परमः क्रमः 004a
संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः 004c
ते वयं नयमास्थाय शत्रुदेहसमीपगाः 005a
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः 005c
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः 005e
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् 006a
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते 006c
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् 007a
शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे 007c
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ 008a
अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः 008c
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः 009a
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः 009c
010 युधिष्ठिर उवाच
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः 010a
यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा 010c
011 कृष्ण उवाच
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः 011a
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः 011c
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः 012a
राजा बृहद्रथो नाम मगधाधिपतिः पतिः 012c
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः 013a
नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः 013c
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः 014a
यमान्तकसमः कोपे श्रिया वैश्रवणोपमः 014c
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम 015a
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः 015c
स काशिराजस्य सुते यमजे भरतर्षभ 016a
उपयेमे महावीर्यो रूपद्रविणसम्मते 016c
तयोश्चकार समयं मिथः स पुरुषर्षभः 017a
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा 017c
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप 018a
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः 018c
तयोर्मध्यगतश्चापि रराज वसुधाधिपः 019a
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः 019c
विषयेषु निमग्नस्य तस्य यौवनमत्यगात् 020a
न च वंशकरः पुत्रस्तस्याजायत कश्चन 020c
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः 021a
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् 021c
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः 022a
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् 022c
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् 023a
पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् 023c
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः 024a
परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत 024c
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः 025a
पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा 025c
026 बृहद्रथ उवाच
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् 026a
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे 026c
027 कृष्ण उवाच
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः 027a
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् 027c
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह 028a
अवातमशुकादष्टमेकमाम्रफलं किल 028c
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च 029a
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम् 029c
उवाच च महाप्राज्ञस्तं राजानं महामुनिः 030a
गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप 030c
यथासमयमाज्ञाय तदा स नृपसत्तमः 031a
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ 031c
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे 032a
भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः 032c
तयोः समभवद्गर्भः फलप्राशनसम्भवः 033a
ते च दृष्ट्वा नरपतिः परां मुदमवाप ह 033c
अथ काले महाप्राज्ञ यथासमयमागते 034a
प्रजायेतामुभे राजञ्शरीरशकले तदा 034c
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे 035a
दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् 035c
उद्विग्ने सह सम्मन्त्र्य ते भगिन्यौ तदाबले 036a
सजीवे प्राणिशकले तत्यजाते सुदुःखिते 036c
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे 037a
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः 037c
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी 038a
जग्राह मनुजव्याघ्र मांसशोणितभोजना 038c
कर्तुकामा सुखवहे शकले सा तु राक्षसी 039a
सङ्घट्टयामास तदा विधानबलचोदिता 039c
ते समानीतमात्रे तु शकले पुरुषर्षभ 040a
एकमूर्तिकृते वीरः कुमारः समपद्यत 040c
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना 041a
न शशाक समुद्वोढुं वज्रसारमयं शिशुम् 041c
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः 042a
प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः 042c
तेन शब्देन सम्भ्रान्तः सहसान्तःपुरे जनः 043a
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप 043c
ते चाबले परिग्लाने पयःपूर्णपयोधरे 044a
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् 044c
अथ दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् 045a
तं च बालं सुबलिनं चिन्तयामास राक्षसी 045c
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः 046a
बालं पुत्रमुपादातुं मेघलेखेव भास्करम् 046c
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् 047a
बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् 047c
तव पत्नीद्वये जातो द्विजातिवरशासनात् 048a
धात्रीजनपरित्यक्तो मयायं परिरक्षितः 048c
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे 049a
तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् 049c
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च 050a
अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् 050c
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी 051a
कामया ब्रूहि कल्याणि देवता प्रतिभासि मे 051c