युधिष्ठिर उवाच 001
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः 001a
कथं प्रहिणुयां भीमं बलात्केवलसाहसात् 001c
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् 002a
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् 002c
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् 003a
श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् 003c
अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते 004a
यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम 004c
सन्न्यासं रोचये साधु कार्यस्यास्य जनार्दन 005a
प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः 005c
006 वैशम्पायन उवाच
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी 006a
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत 006c
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् 007a
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् 007c
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः 008a
बलेन सदृशं नास्ति वीर्यं तु मम रोचते 008c
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति 009a
क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये 009c
सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् 010a
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति 010c
द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे 011a
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् 011c
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते 012a
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः 012c
दैन्यं यथा बलवति तथा मोहो बलान्विते 013a
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना 013c
जरासन्धविनाशं च राज्ञां च परिमोक्षणम् 014a
यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् 014c
अनारम्भे तु नियतो भवेदगुणनिश्चयः 015a
गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् 015c
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् 016a
साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः 016c