युधिष्ठिर उवाच 001
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति 001a
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि 001c
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः 002a
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् 002c
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति 003a
परेण समवेतस्तु यः प्रशस्तः स पूज्यते 003c
विशाला बहुला भूमिर्बहुरत्नसमाचिता 004a
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह 004c
शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः 005a
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः 005c
एवमेवाभिजानन्ति कुले जाता मनस्विनः 006a
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन 006c
007 भीम उवाच अनारम्भपरो राजा वल्मीक इव सीदति 007a
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति 007c
अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् 008a
जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् 008c
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये 009a
मागधं साधयिष्यामो वयं त्रय इवाग्नयः 009c
010 कृष्ण उवाच आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते 010a
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् 010c
हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः 011a
कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः 011c
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः 011e
निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः 012a
बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ 012c
न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः 013a
तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः 013c
रत्नभाजो हि राजानो जरासन्धमुपासते 014a
न च तुष्यति तेनापि बाल्यादनयमास्थितः 014c
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् 015a
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् 015c
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् 016a
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति 016c
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे 017a
पशूनामिव का प्रीतिर्जीविते भरतर्षभ 017c
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः 018a
ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् 018c
षडशीतिः समानीताः शेषा राजंश्चतुर्दश 019a
जरासन्धेन राजानस्ततः क्रूरं प्रपत्स्यते 019c
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् 020a
जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत् 020c