श्रीकृष्ण उवाच 001
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि 001a
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत 001c
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् 002a
तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् 002c
कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिप 003a
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ 003c
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते 004a
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि 004c
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः 005a
तानि चैकशतं विद्धि कुलानि भरतर्षभ 005c
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् 006a
भजते च महाराज विस्तरः स चतुर्दिशम् 006c
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते 007a
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत 007c
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् 008a
स साम्राज्यं जरासन्धः प्राप्तो भवति योनितः 008c
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः 009a
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् 009c
तमेव च महाराज शिष्यवत्समुपस्थितः 010a
वक्रः करूषाधिपतिर्मायायोधी महाबलः 010c
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ 011a
जरासन्धं महावीर्यं तौ हंसडिभकावुभौ 011c
दन्तवक्रः करूषश्च कलभो मेघवाहनः 012a
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः 012c
मुरं च नरकं चैव शास्ति यो यवनाधिपौ 013a
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा 013c
भगदत्तो महाराज वृद्धस्तव पितुः सखा 014a
स वाचा प्रणतस्तस्य कर्मणा चैव भारत 014c
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि 015a
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः 015c
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः 016a
स ते सन्नतिमानेकः स्नेहतः शत्रुतापनः 016c
जरासन्धं गतस्त्वेवं पुरा यो न मया हतः 017a
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः 017c
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् 018a
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् 018c
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः 019a
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः 019c
चतुर्युः स महाराज भोज इन्द्रसखो बली 020a
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् 020c
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि 021a
स भक्तो मागधं राजा भीष्मकः परवीरहा 021c
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनः सतः 022a
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः 022c
न कुलं न बलं राजन्नभिजानंस्तथात्मनः 023a
पश्यमानो यशो दीप्तं जरासन्धमुपाश्रितः 023c
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो 024a
जरासन्धभयादेव प्रतीचीं दिशमाश्रिताः 024c
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः 025a
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह 025c
शाल्वेयानां च राजानः सोदर्यानुचरैः सह 026a
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः 026c
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः 027a
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः 027c
तथैव सर्वपाञ्चाला जरासन्धभयार्दिताः 028a
स्वराष्ट्रं सम्परित्यज्य विद्रुताः सर्वतोदिशम् 028c
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् 029a
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः 029c
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले 030a
बलेन तेन स ज्ञातीनभिभूय वृथामतिः 030c
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् 031a
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना 031c
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता 032a
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा 032c
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् 033a
हतौ कंससुनामानौ मया रामेण चाप्युत 033c
भये तु समुपक्रान्ते जरासन्धे समुद्यते 034a
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः 034c
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः 035a
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् 035c
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ 036a
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ 036c
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् 037a
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः 037c
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः 038a
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर 038c
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः 039a
स चान्यैः सहितो राजन्सङ्ग्रामेऽष्टादशावरैः 039c
हतो हंस इति प्रोक्तमथ केनापि भारत 040a
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत 040c
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे 041a
इत्येतां मतिमास्थाय डिभको निधनं गतः 041c
तथा तु डिभकं श्रुत्वा हंसः परपुरञ्जयः 042a
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत 042c
तौ स राजा जरासन्धः श्रुत्वाप्सु निधनं गतौ 043a
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ 043c
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे 044a
पुनरानन्दिताः सर्वे मथुरायां वसामहे 044c
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना 045a
कंसभार्या जरासन्धं दुहिता मागधं नृपम् 045c
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता 046a
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम 046c
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् 047a
संस्मरन्तो विमनसो व्यपयाता नराधिप 047c
पृथक्त्वेन द्रुता राजन्सङ्क्षिप्य महतीं श्रियम् 048a
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः 048c
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः 049a
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् 049c
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप 050a
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् 050c
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुङ्गवाः 051a
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः 051c
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च 052a
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् 052c
एवं वयं जरासन्धादादितः कृतकिल्बिषाः 053a
सामर्थ्यवन्तः सम्बन्धाद्भवन्तं समुपाश्रिताः 053c
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि 054a
योजनान्ते शतद्वारं विक्रमक्रमतोरणम् 054c
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः 054e
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले 055a
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः 055c
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः 056a
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि 056c
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे 057a
कृतवर्मा अनाधृष्टिः समीकः समितिञ्जयः 057c
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः 058a
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश 058c
लोकसंहनना वीरा वीर्यवन्तो महाबलाः 059a
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः 059c
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम 060a
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत 060c
न तु शक्यं जरासन्धे जीवमाने महाबले 061a
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम 061c
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे 062a
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः 062c
सोऽपि राजा जरासन्धो यियक्षुर्वसुधाधिपैः 063a
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः 063c
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् 064a
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् 064c
वयं चैव महाराज जरासन्धभयात्तदा 065a
मथुरां सम्परित्यज्य गता द्वारवतीं पुरीम् 065c
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि 066a
यतस्व तेषां मोक्षाय जरासन्धवधाय च 066c
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन 067a
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर 067c
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ 068a
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः 068c