वैशम्पायन उवाच 001
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः 001a
चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत 001c
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् 002a
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च 002c
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः 003a
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः 003c
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः 004a
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे 004c
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् 005a
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य सोऽसकृत् 005c
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् 006a
किं हितं सर्वलोकानां भवेदिति मनो दधे 006c
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः 007a
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः 007c
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः 008a
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता 008c
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः 009a
राजसूयं प्रति तदा पुनः पुनरपृच्छत 009c
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा 010a
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् 010c
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति 011a
तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति 011c
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन 012a
राजसूयस्य समयं मन्यन्ते सुहृदस्तव 012c
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा 013a
साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः 013c
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् 014a
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते 014c
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् 015a
अविचार्य महाराज राजसूये मनः कुरु 015c
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् 016a
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते 016c
धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा 016e
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् 017a
पुनः पुनर्मनो दध्रे राजसूयाय भारत 017c
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः 018a
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः 018c
019 युधिष्ठिर उवाच
इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः 019a
श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् 019c
020 वैशम्पायन उवाच
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन 020a
इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् 020c
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् 020e
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा 021a
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् 021c
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् 022a
भूयो विममृशे पार्थो लोकानां हितकाम्यया 022c
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ 023a
विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति 023c
न हि यज्ञसमारम्भः केवलात्मविपत्तये 024a
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् 024c
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् 025a
सर्वलोकात्परं मत्वा जगाम मनसा हरिम् 025c
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु 026a
पाण्डवस्तर्कयामास कर्मभिर्देवसम्मितैः 026c
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् 027a
न स किञ्चिन्न विषहेदिति कृष्णममन्यत 027c
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः 028a
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा 028c
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् 029a
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् 029c
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः 030a
इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा 030c
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः 031a
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः 031c
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः 032a
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः 032c
प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा 033a
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः 033c
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् 034a
धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् 034c
035 युधिष्ठिर उवाच
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया 035a
प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः 035c
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते 036a
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति 036c
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे 037a
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् 037c
केचिद्धि सौहृदादेव दोषं न परिचक्षते 038a
अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत 038c
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् 039a
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने 039c
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च 040a
परमं नः क्षमं लोके यथावद्वक्तुमर्हसि 040c